________________
१६० दर्पणसहिते वैयाकरणभूषणसारे अत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम् । तच्च क्रियायां नि. बोधमिति विद्यमानेऽपि घटे घटोऽभूदिति प्रयोगः । विद्यमान ध्वंसप्रतियोगी घटाभिन्नाश्रयक उत्पत्याद्यनुकूलो व्यापार इति बोधः॥ ____ अयमत्र संग्रहः ॥ कालो द्विविधः । अद्यतनोऽनघतनश्च । आद्यस्त्रिविधः । भूतभविष्यद्वर्त्तमानभेदात् । अन्त्यो द्विविधः । भूतो भविष्यश्च । तत्र वर्तमानत्वे लट् । भूतत्वमात्रे लुङ् । भ. विष्यत्तामात्रे लुट् । हेतुहेतुमद्भावाद्यधिकार्थविवक्षायामनयोल. ङ् । अनद्यतने भूतत्वेन विवक्षिते लङ् । तत्रैव परोक्षत्वविवक्षा. यां लिट् । तादृशे भविष्यति लुट्, इतिद्रष्टव्यः ॥
लुङर्थमाह सत्यामिति ॥ क्रियाया अतिपत्तिरनिष्पत्तिस्त. स्यां गम्यमानायाम् , भूते भाविनि हेतुहेतुमद्भावे सति लुङि.
लुङिति* 1 भूत इत्यधिकृत्य, "लुङ् इति सूत्रादित्यर्थः । ननु वर्तमानध्वसप्रतियोग्युत्पत्तिकत्वं भूतत्वम् । अत एव नाशस्य विद्यमान तादशायामपि, विनष्टो घट इति प्रयोगः । तदुत्पत्तेर्वर्तमाननाशप्र. तियोगित्वात् । तथाच यत्रोत्पत्तिरेव धात्वर्थस्तत्रोत्पत्तेद्वैधाभानप्र. सङ्गोऽत आह *अत्रेति* | भूत इति सूत्रे इत्यर्थः ॥ *वर्तमान इत्या. दि* । नचोक्तदोषः । अस्मन्मते नश्यत्यादे शाऽनुकूलव्यापाराऽर्थः कतया कालाऽन्वयस्याऽपि व्यापार एव समर्थितत्वेन च तदप्रस. तरुत्पत्यघाटतत्वेन द्वेधाभानाऽसम्भवाश्च । *क्रियायामिति । फ. लानुकूलायां तस्यामित्यर्थः । विद्यमानेऽपत्यिपिना समानप्रत्ययो. पात्तत्वप्रत्यासत्याऽऽख्यातार्थकारके कालान्वयोपगम उक्तप्रयोगानुपपत्तिः सुच्यते ॥
नैयायिकास्तु-उत्पत्तिघटितत्वेन लाघवादुक्तार्थ एव भूतपदस्य शक्तिः । परन्तु नश्यत्यादौ नाशातिरिक्तस्य व्यापारान्तरस्याननुभ. वात्तत्रोत्पत्तिघटिते प्रत्ययस्य लक्षणावश्यकीत्याहुः ॥
*भूते भाविनीति ॥ कार्यकारणभावापन्नप्रकृत्यर्थयों तस्वे भ.