________________
लकारार्थनिर्णयः।
१५९ आदिना, "हेतुहेतुमतोर्लिङ"(पा० सू० ३ । ३ । १५६) "आशिषि लिङ्लोटौ" ( पा० सू० ३ । ३ । १७३) इतिसूत्रोक्ता हेतुहेतुमद्भावादयो गृह्यन्ते । “यो ब्राह्मणा(१)यावगुरेत्तं शतेन यातयेत्' इति यथा ॥ __लुङर्थमाह (पा० सू० ३ । २।११०) भूतमात्र इति ॥. भूतसामान्ये इत्यर्थः । भूते इत्यधिकृत्य, "लुङ्" इति सूत्रात् ।
धनत्वरूपसाध्याभावाद् व्यभिचारवारणाय लिङ्पदबोध्येति । आप्तस्तु वैदिकस्थल ईश्वर एवातस्मिन् विधिरेव तावत, कुमार्या गर्भ इव 'योगे मानमित्याहुः।
तदपि न । कृत्यसाध्यनिष्फलाऽनिष्टे प्रवृत्तिवारणायेष्टसाधन. तादिशानहेतुताया आवश्यकत्वेन तविषयेष्टसाधनत्वादीनां विध्यऽर्थत्वोपगमेनैव प्रवृत्तिनिर्वाहे आप्ताभिप्रायस्य विध्यर्थत्वे मानाभा.. वात् । न हीष्टसाधनत्वज्ञानमन्तरेणाप्तच्छाविषयत्वज्ञानमात्रात् प्रवृत्तिः कस्याऽपि दृश्यते । स्वतन्त्रप्रवृत्ती व्यभिचारेणाप्ताऽभिप्रायज्ञानस्य प्रवर्तकत्वाऽसम्भवाञ्चेत्यलम् । प्रकृतमनुसरामः ॥*प्रपश्चि. तञ्चैतदिति* । बलवदनिष्टाऽननुबन्धित्वज्ञानस्य प्रवर्तकतानिराकरणमिष्टसाधनताज्ञानस्य प्रवर्तकत्वाऽवधारणं चेत्यर्थः । प्रपञ्च. स्तूक्तप्रायः॥ ___ *आदिनेति* ॥ प्रेरणादौ चेत्यत्रोपात्तादिशब्दनेत्यर्थः ॥ *यो. ब्राह्मणायाऽवगुरेदिति । यत्कर्तृको ब्राह्मणोद्देश्यको वधोद्यमस्तक. मिका तादृशवधोद्यमजन्या शतसंवत्सरयातनेति बोधः । “हेतुहे. तुमतोर्लिङ्” (पा० सू०३।१५६ ) इत्यनेन प्रकृत्यर्थयोर्भावे लिङो विधानात् । प्रवर्तकत्वेन निवर्तकत्वेन वा वेदस्य प्रामाण्यात्तेन व. धोद्यमनिवृत्तिपरत्वग्रहे तस्मानावगुरितव्यमिति विधिः कल्प्यत इति भावः । मात्रपदं कृत्स्नार्थकमित्यभिप्रायवानाह *भूतसामान्य इति* । तेन विशेषविवक्षायां लङादीनामवकाशं सूचयति । *भूते ... (१) 'पत्ये शेते' इतिवत् संप्रदानत्वाचतुर्थी ।