SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५८ दर्पणसहिते वैयाकरणभूषणसारे कर्तृत्वदित्यनेनाऽपि गमयत्यादेगच्छन्तं प्रेरयतीतिवत् , पृच्छत्वित्यस्य पृच्छन्तं प्रेरयतीतिविग्रहस्याऽदर्शनेन कर्बसम्बद्धधात्वर्थवि. षयकप्रवृत्तिजनकज्ञानाऽनुकूलायास्तस्या णिजर्थत्वाऽभावप्रतिपादनात् तद्विरोधाभावात् । अथाऽपीत्याधुक्तिस्त्वेकदेशिनः । विध्यर्थप्रत्ययप्रकृत्यर्थस्थ स्वाभाव्येन भविष्यत्तयैव प्रतीतेः । तदानी प्रयोज्यस्य निर्यापारत्वेन कर्तृत्वासम्भवादेव लोटा प्रेषणस्य धात्वर्थविशेषणतयैव भानात् तद्विशेष्यतया प्रेरणविवक्षायां णिचो दुर्वारत्वं तु लोडन्ताद्धात्वथैविशेष्यतया प्रेरणायाः प्रतीतेः पूर्वपक्षस्यैव निईलतापत्तेश्च । इदं ते इष्टसाधनमित्यायुक्तिस्तु सर्वथेष्टसाधनत्वबोधनपरैव । इष्टसाध. नत्त्वस्य प्रवर्तनात्वेन विधिवाच्यत्वमिति पक्ष पौनरुक्त्यसम्भवात् । नैयायिकमते कृत्यात्मकव्यापारस्य पच्याद्यर्थत्वाभावेन तन्मते इष्ट. साधनतात्वेनेष्टसाधनत्वस्य विध्यर्थत्वे पौनरुक्त्यापादनानवका. शाश्चेति । वस्तुतस्तु भाष्ये बहुषु स्थलेषु प्रेरणाया विध्यर्थकत्वकथनात् प्रामाण्याल्लिङाद्यन्तशब्दप्रयोगरूपाया एव तस्या विध्यर्थत्वमुचितम् । श्रुतेस्तु, "तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जशिरे" "धाता यथापूर्वमकल्पयत्" इत्यादिश्रुतिबलात् पौरुषेयत्वमभ्युपेत्यैकरूपे. गैव लोकवेदयोस्तद्विषये इष्टसाधनत्वाऽनुमानेन विधेः प्रवर्तकत्वं निर्वाह्यमिति सर्व चतुरस्रमिति ॥ .. आचार्यास्तु-आत्माऽभिप्रायो विध्यर्थः । पाकं कुर्याः, पाकं कु. यामिति मध्यमोत्तमपुरुषयोर्लिङ इच्छाविशेषात्मकाज्ञाध्येषणानु. शाप्रश्नप्रार्थनार्थकतया प्रथमपुरुषेऽपीच्छायामेव शक्तेरुचितत्वात् । तत्र भयजनिकेच्छा आज्ञा। अध्यषणीये प्रयोक्तुरनुग्रहधोतिका साऽध्येषणा। निषेधाभावव्यक्षिकेच्छाऽनुशा। उत्तरप्रयोजिका तु प्रश्नः । प्राप्तीच्छा प्रार्थनेति विवेकः । तथाच, स्वर्गकामो यजेतेत्यत्र यागः स्वर्गकामनिष्ठतयातेच्छाविषय इति बोधः। . यद्वा कर्तव्यत्वेनेच्छैव विध्यर्थः। तथा चेष्टसाधनत्वाऽनुमानम् । त. घथा स्वर्गकामस्य मम याग इष्टसाधनं,कर्तव्यत्वेनाऽऽप्तोक्तलियोध्ये. छाविषयत्वात् । मत्पित्रेष्यमाणमद्भोजनवत् । विषभोजनादेरपि क. स्यचित्कृतिसाध्यतया कर्तव्यत्वेनेश्वररूपाच्छाविषयत्वेन तवेष्टसा.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy