SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। सौ व्यापार इति विशेषगवेषणायां, समीहितसाधनत्वमेव स इत्येव वक्तुमुचितम्। लिङस्तदर्थकत्वं विना प्रवर्तकत्वस्यैवाऽसम्भवात् । प्रेरणाविषयः पाक इति बोधस्येष्टसाधनत्वाद्यविषयकस्य प्रवर्तकत्त्वं लोकविरुद्धमेव । न खल्वागमसहस्रप्रेरितोऽपि स्वेष्टसाधनत्वमझा. त्या प्रवर्तते कश्चिदित्यपि सर्वसिद्धमेव मखकरणस्य स्वनिष्ठव्यापा. रद्वारैव फलजनकत्वमिति नियमस्तु नास्त्येव । व्याप्तिज्ञानादौ व्य. भिचारात् । तस्माल्लिङादिजन्यबोधविषयाऽभिधाया इष्टसाधनस्वादिज्ञाननिरपेक्षायाः प्रवर्तकत्वं नियुक्तिकमेव। शब्दरूपप्रेरणावादिनाऽपि तद्विषय इष्टसाधनत्वानुमितिद्वारैवो. क्तयुक्त्या प्रवर्तकत्वं वाच्यम् । तञ्च वैदिकविधिस्थले न सम्भव ति । "तस्यैव महाभूतस्य निश्वसितमेतद् यदृग्वेदो यजुर्वेदः सा. मवेद" इति श्रुत्युपष्टम्भेन निःश्वसितवद्दे तैजन्यत्वाऽङ्गीकारेण य. थार्थज्ञानवदुश्चरितत्वरूपाऽऽप्तोक्तत्वरूपविशेषणवैकल्येनोक्तानुमानाप्रवृत्तेः । एवं सविषयत्वमप्यात्मविशेषगुणाऽतिकिण्यास्तस्या सर्व तन्त्रविरुद्धम्। ____ न च प्रेरणैव स्वातन्त्र्येण प्रवृत्तिहेतुः । स्वतन्त्रप्रवृत्ती व्यभिचा. रात । "सर्व इमे स्वभूत्यर्थ प्रवर्तन्ते” इति समीहितसाधनताशा. नप्रवर्तकताप्रतिपादकहेतुमतिचेतिसूत्रभाष्यविरोधाच्च । "कः प्रयो. ज्यस्य प्रेरणयाऽर्थो यदभिप्रायेषु सजते" इति तत्सूत्रस्थभाष्येण णिजयंप्रेरणाया अपि स्वातन्त्र्येणाप्रवर्तकत्वबोधनाञ्चति वैदिकविधेः प्रेरणाऽर्थकत्वासम्भवेन प्रवर्तकत्वानुपपत्त्येष्टसाधनत्वाऽर्थकत्वमे. वाऽङ्गीकरणीयम् । एवञ्च लौकिकविधेरपि तच्छक्त्यैव प्रवर्तकत्वोपपत्तौ न तदर्थों ऽपि सा। अभिप्राय एव तत्र विध्यर्थ इति कल्पस्तु वक्ष्यमाणाऽऽचा. र्यमतनिरासेनैव निरस्तः। विधिः प्रेरणमिति भाष्यं तु प्रेर्यतेप्रवर्य तेऽनेनेति व्युत्पत्त्या प्रवर्तकज्ञानविषयेष्टसाधनत्वपरम् । ज्ञानस्य त. द्विषयकत्वेनैवप्रवर्तकत्वात् । यदपि तदुपष्टम्भकतया, पृच्छतु मां भवानित्यादिभाष्योपन्यस. नं तदपि नाऽस्माकं प्रतिकूलम् । यतस्तेन प्रवर्तकशानजनकत्वेन प्र. वर्तनापदव्यपदेश्याया लोडाद्यन्तशब्दप्रयोगरूपायाः प्रेरणायाणिज. प्रतिपाद्यते, न तु विध्यर्थत्वमपि । अर्थभेदस्य दर्शितत्वात् । अ.
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy