________________
दर्पणसहिते वैयाकरणभूषणसारे . कष्ट कर्मेति न्यायादुपाये द्वेषेणाऽऽलस्यादिना वा अप्रवर्त. मानं पुरुषं प्रति प्रशस्तफलवत्ताबोधनेन द्वेषाद्यपसारणेनाऽनुवादवाक्यजन्या प्राशस्त्यरूपा स्तुतिः सहकारिकारणमितीयमितिकर्तः व्यतेत्युच्यते । एवमा भावनाया अप्यंशत्रयवैशिष्ट्येन तदवगतो किं भावयेदित्याकाङ्कायां स्वर्गकामादिपदसन्निधानात् स्वर्गों भा. व्यतयाऽन्वेति स्वर्ग भावयेदिति । यदपि स व्यापारस्त्यागविषयो. ऽपि तथाऽपि तस्याऽसुखरूपतयाऽपुरुषार्थत्वेन करणत्वेनैवोपस्थि. स्या च न भाव्यत्वम् ।
अत एव तत्समानाधिकरणज्योतिष्टोमादिपदात्ततीया । केने. स्याकालायां यागः करणत्वेनाऽन्वेति । करणत्वं तूक्तमेव । सहका
कालारूपे कथंभावाकाङ्क्षायां च “समिधो यजति" इत्यादिवाक्या. घगतसमिनामकयागादिक्रियाजातमितिकर्तव्यतयाऽन्वेतीत्यधिकमन्यतोऽवधार्यम् । तदुक्तम्--
अभिधाभावनामाहुरम्यामेव लिङादयः। अर्थात्मभावना त्वन्या सा चोख्यातस्य गोचरः।। लिङोऽभिधा सैव च शब्दभावना भाव्या च तस्याः पुरुषप्रवृत्तिः। सम्बन्धबोधः करणं तदीयं
प्ररोचना चाङ्गतया प्रयुज्यते ॥ इति । उक्तोऽर्थः । तत्र पूर्वोक्तमते भट्टमतादियान विशेषो-यद्भट्टमते. ऽभिधाख्यो वैदिकलिङ्गों व्यापारः शब्दसमवेतस्तदतिरिक्तश्च । तस्मिस्तु लिङ्गाद्यन्तशब्दात्मक एव लोकवेदसाधारणश्च । सविषय. कत्वं तु मतद्वयेऽप्यविशिष्टमिति ॥ ___ अत्र वदन्ति । अभिधा लिङादिनिरूपता शक्तिरेव, न तु तदति. रिक्तः कश्चन शद्वसमवेतो व्यापारः। मानाऽभावात् । विधेः प्रव. तकत्वस्य पूर्वमुपपादनात् तदनुपपत्तेरप्यभावात् अन्यथा शब्दाऽ. तिरिक्तः शद्वसमवेत एको व्यापारः कल्पनीयः। तस्य च स्वप्रवृत्ती परवृसौ वा कारणत्वेनाऽक्लप्तस्य तत्वेन कारणत्वम् । प्रवर्तनात्वेन परनिष्ठम्यापारबोधकत्वेन क्लप्तस्य शब्दस्य स्वनिष्ठव्यापारको. धकत्वं सविषयकत्वं च कल्पनीयमिति गौरवस्य स्फुटत्वाच ।
प्रेरणाया विध्यर्थत्वेऽपि सामान्यस्य विशेषे पर्यवसानात को