________________
लकारार्थनिर्णयः।
नुमानादद्विष्टेति। तत्र विषभोजनविषयकाऽभिप्रायस्य तदीयद्वेष. विशिष्टत्वान्न व्यभिचारः।
भवतु वा लिङादिसमभिव्याहारे व्यापारान्तरस्याननुभवात् स. र्वत्र लिङाद्यन्तशब्दस्वरूपैव सा । अत एव, “हेतुमति च" इति (पा० सू०३।१ । २६ ) सुत्रे भाष्ये लिङादिशब्दप्रयोगरूपप्रयोज. ककर्तृव्यापारस्य सत्त्वादित्याशयेन, पृच्छतु मां भवानित्यत्र णिच कस्मान्न भवतीति प्रश्ने, अकर्तृत्वादित्युत्तरम् । सक्रियप्रेरणायां णिच, निष्क्रियप्रेरणायां लोडादि। तत्प्रयोजक इत्यत्र तत्पदेन व्या. पाराविष्टः कोंच्यते इति तद्भावः।। .. अथापि कथञ्चित् कर्त्ता स्यादेवमपि न दोषो, लोटोक्तत्वात् प्रेषणस्य णिज् न भविष्यतीत्युक्तम् । तत आहत्यैव प्रेरणाया विध्य. र्थत्वं लभ्यते । विधिनिमन्त्रेति सूत्रभाष्येऽपि विधिः प्रेरणमित्युक्ते. श्व । तस्मान्नेष्टसाधनत्वादि विध्यर्थः।
किञ्चेदं ते इष्टसाधनं, तस्मात् त्वं कुर्विति स्वारसिकव्यवहारादपि न तस्य विध्यर्थत्वं, पौनरुक्त्यापत्तेः । पौनरुत्यस्य सर्वथेष्टसाधनत्वबोधनतात्पर्य्यकत्वेऽपि तस्मादित्यस्यानन्वयापत्तेश्चत्याहुः। तच्च प्रायशो भट्टमताऽनुवाद एव । यतो भट्टमते लिङर्थोऽभिधाख्यो व्यापारः । स च लोके प्रयोक्तृपुरुषनिष्ठोऽभिप्रायविशेष एवे. त्यादि प्राग्वत । वेदे त्वन्यस्याऽसम्भवालिङाद्यन्तशब्दनिष्ट एव सा, समवेतश्चात एव सा शाब्दी भावनेति व्यवहियते । . भावनायाः शब्दार्थभेदेन द्वैविध्यादाख्यातवाच्याऽऽर्थीति व्यव. द्वियते । भावनात्वेन लिङर्थशादभावनायाः सविषयत्वमपि भाव. नाया भाव्यकरणेतिकर्तव्यतारूपांशत्रयविशिष्टत्वादभिधाभावना. याः सविषयकस्वेनावगतायाः किं भावयेदिति भाव्याकाङ्कायां स. मानप्रत्ययोपात्तत्वप्रत्यासत्त्यांऽशत्रयविशिष्टा स्वविषयप्रवृत्तिरूपा. ख्यातवाच्या भावना विषयत्वेनोपतिष्ठते। इयमेव साध्याकाति व्यवहियते । साध्यताख्यविषयतयैव तस्याः सविषयत्वात्। - एवञ्च तस्याः साध्यत्वावगते, केनेति करणाका लिङादि. परशानं करणत्वेनाऽन्वेति । करणत्वं च भावनाभाव्यनिर्वर्तकत्व. मेघ । कुठारादेरपि पुरुषव्यापारनिर्वत्यैच्छिदानिर्वतकत्वेनैव करणस्वात् । इयमेव भावना करणाका त्युच्यते ।