SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५४ दर्पणसहिते वैयाकरणभूषणसारे इत्यनेन तुल्ययोगक्षेमम् । - एवं काम्याऽव्यवहितापूर्वसाधनं कामी कर्तव्यतयाऽवैतीत्यपि न, काम्यसाधनताशानस्यैव प्रवर्तकत्वान्न तु तत्राऽव्यवहितत्वनिबेशोऽपि । गौरवान्मानाऽभावाच्च । हश्यते च तृप्त्यर्थिनस्तत्प्रयोजके जलाहरणादौ प्रवृत्तिः । इष्टसाधनत्वे यथा शक्तिग्रहस्तथोक्तम् । अपूर्वस्याशक्यत्वेऽपि यथा नित्यनैमित्तिके प्रवृत्तिस्तथोपपादितम् । प्रत्युत तत्र तवैव सा दुरुपपदा । निष्फलत्वात् । दुःखैकफल. स्वाश्च । प्रवृत्तिमात्र इष्टसाधनताज्ञानस्य हेतुत्वावधारणात् । प्रवृ. त्तिविषयसाध्यत्वे सतीष्टत्वरूपसाध्यत्वमपि नापूर्वस्य, येन नदुद्देशेनापि प्रवृत्तिः सम्भाव्येत । निष्फलतयावगते प्रवृत्तिस्तु श्रुतिस. हस्रेणाप्युत्पादयितुमशक्येति वेदबोधितत्वान्नित्ये प्रवृत्तिरिति छात्रप्रतारणामात्रम् । __अत एव, 'यशो दानं तपः कर्म' इत्यादिनाऽनिर्दिष्टोऽपि प्रत्यवा. यपरीहारः स्वर्गादिफलमनुद्दिश्य क्रियमाणानामेषां फलं भवतीत्यर्थकेनाऽष्टादशाध्याय भगवद्गीतासु पावनत्वमुक्तम् । किञ्च, पचेते. त्यादिलौकिकविधेरिष्टसाधनत्वबोधकत्वेन प्रवर्तकत्ववद् वैदिकवि. धेरपि तच्छक्तयैव प्रवर्तकस्वात् ज्ञाननिर्वाहे तस्यानुपस्थितापूर्व शक्तिकल्पने निष्प्रमाणकमेवेति । ___ परेतु-लिङादिश्रवणेऽयं मां प्रेरयतीति नियमेन प्रतीतेरभिधा. नामकः प्रेरणापरपायो व्यापारो लिङादिवाच्यः। सा च लिङ्ग. संख्यानन्वयित्वाद् व्यापारपदेन प्रवर्तकनिष्ठत्वात् प्रवर्त्तनापदेन च व्यवहियते । प्रेरणात्वेन तस्याः सविषयत्वमपि शक्यताऽच्छेदकं व प्रेादिधात्वर्थतावच्छेदकतया सिद्धं प्रेरणात्वमखण्डोपाधिः । सच व्यापारः, सम्भवाल्लोके प्रवर्तकपुरुषनिष्ठोऽभिप्रायविशेष एव । तत्प्रवर्तकत्वे च लिङाद्युच्चारयितृत्वम् । वेदे तु प्रयोक्तुरस. म्भवालिङाद्यन्तशब्दस्वरूप एव तत्त्वे सति स्वतन्त्रत्वम् । राजा. दिप्रेरितपदातेर्लिङाधुच्चारयितृत्वेऽपि प्रवर्तकत्वेनाव्यवहियमाण. त्वात् स्वतन्त्रेति । अद्विष्टयाऽऽप्तोक्तया च तया स्वविषय इष्टसाध. स्वानुमानम् । ततश्च प्रयोज्यप्रवृत्तिः । शत्रूक्ताद्विषं भुक्ष्वेत्यतो विष. भोजने इष्टसाधनत्वानवगतेराप्तोक्तयति । विष आत्पोक्तयापि, भुकश्व मा चास्य गृहे भुक्ड्था इत्यादिकयापि तस्मिन्निष्टसाधनत्वान
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy