________________
- लकारार्थनिर्णयः। . १५३ कारणत्वम् । सैव योग्यता । यथा घटेन जलमाहरेत्यत्र छिद्रतर. घटत्वं योग्यतावच्छेदकोपस्थितिघंटेनेत्यादावर्थाध्याहारात् । प्रकृते चौपादानिकप्रमाणवशात्तच्छक्त्यैव । तच्छक्त्यैवाशक्योपस्थित्यः भ्युपगमे लक्षणोच्छेद इति न सांप्रतम् । स्वशक्त्यान्वयबोधकस्यैव स्वोत्पादकसकलपदार्थबोधकत्वोपगमात् ।
न च गङ्गायां घोष इत्यादौ गङ्गादिपदानां स्वशक्त्यान्वयबोध. कत्वं, येन तदुपपादकसकलपदार्थबोधनायौपादानिकप्रमाणाऽवका. शः स्यात् । अजहत्स्वार्थलक्षणा तु नाऽस्मन्मतसिद्धा । तथाच स्वीयत्वेन कार्यबोधो नियोज्यः समभिव्याहृतपदोपस्थापितफल. कामश्च तथेति काम्ये स्वर्गकामो नियोज्यः।
एवञ्च वेदबोधितमपूर्वमुद्दिश्य पुरुषप्रवृत्युपपत्तौ नेष्टसाधनत्वं विध्यर्थः। इच्छाविषयसाधनतात्वेन तत्र शक्ती प्रवर्तकज्ञानामि. हिः । स्वर्गजनकतात्वेन शक्तौ नानार्थतापत्तेरिति तन्मतस्य विकल्पग्रस्तत्वाच्च। ___अपिच नित्यनैमित्तिकस्थले शुचित्वकालजीविनो राहूपरागव. तश्च मम सन्ध्यास्नानविषयको नियोग इति बोधान्न फलाउपेक्षा, भवन्मते तु चन्द्रसूर्यग्रहे स्नायात् , अहरहः सन्ध्यामुपासीतेत्यादौ फलाश्रवणाद्विध्यर्थबाधः प्रसज्येत । मम तु वैदिके कर्मणि वेदबोधितमपूर्वमुद्दिश्यैव पुरुषः प्रवर्तते । तस्यैव वेदेन पुरुषार्थत्वबोधनात् । काम्ये फलावाप्तिरानुषङ्गिक्येव । अत एव नित्येऽपि तदुहे. शेन प्रवृत्तिरुपपद्यते इत्याहुः । __ तदपरे न क्षमन्ते । लोके प्रवर्तकत्वेन सर्वसम्मतं यदिष्टसाधनस्वज्ञानं तद्विषयेष्टसाधनत्वे विधिशक्तिकल्पनयैव विधेः प्रवर्तकत्वो. पपत्तौ नियोगस्य विधिवाच्यत्वे मानाऽभावात् । वेदबोधितस्वर्गसा. धनत्वानुपपत्या हि तत्कल्पनात् । न च तस्य पूर्वमुपस्थितिरस्ति येन तत्र शक्तिग्रहः । एकविशेषबाधे सामान्यज्ञानस्य तदितरप्रका. रकत्वनियमेऽपि साक्षात्साधनतातिरिक्तसाधनतात्वेन बोधे बाधकाभावात् । तादृशसाधनत्वे योग्यतावच्छेदकं च परम्पराघटकम. पूर्वम् । तथाच स्वर्गसाधनत्वशक्त्यैव निर्वाहे औपादानिकप्रमाणव. शादपूर्वोपस्थितावपि न तद्वाच्यम् । अपूर्वानुपस्थितौ परम्परासाधनत्वमपि कथं वेदो बोधयदिति स्वनुपस्थितेपूर्वे कथं शक्तिप्रह