________________
१५२
दर्पणसहिते वैयाकरणभूषणसारे । पुंसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः प्रवर्तकः । (१)प्रवृत्तिहेतुं धर्मश्च प्रवदन्ति प्रवर्तनाम् । इति ॥ अपश्चितं चैतद् वैयाकरणभूषणे । भवन्मते कृतिसाध्यत्वप्रकारकपाकादिविशेष्यकशानाभावघटिततादृशप्रवृत्तिसामग्रीतादृशमानससामग्योर्मलने बाधकाभावेन ता. दृशमानसे तादृशप्रवृत्तिसामग्याः प्रतिबन्धकत्वस्यावश्यकल्पनीयत्वे. न गौरवस्यातिस्फुटत्वादनयैव दिशानिष्टसाधनत्वज्ञानाभावादीना. मपि हेतुता निरसनीयेत्याहुः। ___ गुरवस्तु-नेष्टसाधनत्वं विध्यर्थः। क्षणिकतयावगते यागे तस्य बोधयितुमशक्यादेवं परम्परासाधनत्वमपि । तथा द्वाराऽनुपस्थितेःशाब्दबोधप्रयोजकान्वयप्रयोजकत्वरूपवत्वयोग्यतायास्तत्राभावात् । साधनतासामान्यबाधस्त्वेकविशेषबोधे तदितरप्रकारकत्वनिय. मादसम्भवदुक्तिकः । किञ्च यागो न कर्तव्यतया प्रतीयते काम्यादन्यकाम्याव्यवहितपूर्ववर्तिसाधनमेव कामी कर्तव्यतयाऽवैतीत्यस्यान्यत्र क्लप्तत्वात् । तस्माद् द्वारभूितं काम्याऽव्यवहितपूर्ववर्तिसाधनमपूर्वमेव कार्यत्वेन शक्यम् ।
कार्यत्वं च कृत्युद्देश्यत्वम् । (२)तत्र विशेषणीभूतकृतेराश्रयवि. षययोराकाङ्क्षायां विषयतया याग आश्रयतया स्वर्गकामः सम्बद्ध ते। सुखदुःखाभावादेलौकिकप्रमाणेनैवापूर्वस्वापि वेदेन कृत्युहे. श्यत्वषोधनादपौरुषेये तस्मिन्नप्रामाण्यशङ्कानवकाशात तस्य त. त्वम् । तथाच स्वर्गकामो यजेतेत्यत्र स्वर्गकामकृत्युद्देश्यो यागवि. षयको नियोग इति बोधः। __ अत्रापूर्वस्य यागविषयककृत्युद्देश्यत्वमेव यागविषयकत्वम् । या. गस्य तादृशकृतिविषयत्वे पुरुषस्याश्रयत्वे चान्वयितावच्छेदकमपू
(१) प्रोपसृष्टवृतहेतुमाणिजन्ताद्भावे युचि निष्पन्नप्रवर्तनापदम् प्रवृतिप्रयोजकव्यापारपरमिति भावः । अत एव "सर्व इमे स्व. भूत्यर्थ यतन्ते" इति "हेतुमेतिच" इति सूत्रे भाष्योक्तं संगच्छते।
(२) कार्यत्वविषयकविवेचनम् श्री ६ गुरुभिः परमलघुमजू. पाटिप्पणे ( कार्यविधिरिति प्राभाकराः ) इत्यत्र स्पशीकृतम् तत्तत एवावगंतव्यमिति ।