SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। १५१ साधनत्वादन्यः कृतिसाध्यत्वादिः । क्रियासु यागादिरूपासु । पुंसां प्रवर्तको न, ज्ञाननिष्ठप्रवृत्तिजनकतायां विषयतयावच्छेदको नेत्य. थः । यजेतेत्यादिवाक्यान्तर्गतलिङादिशक्यो नेति यावत् । चो हे. तौ । यतः प्रवृत्तिहेतुं तद्धेतुतावच्छेदकमेव प्रवर्तनापदेन व्यपदि. शन्तीत्यर्थः। परे तु-बलवदनिष्टाननुबन्धित्वज्ञानस्य द्वेषाभावेनान्यथासि. द्धतयाऽप्रवर्तकत्वेऽपि कृतिसाध्यताज्ञानस्य प्रवर्तकतायाः सर्वसि. द्धत्वेन तद्विषयस्य तस्य विध्यर्थत्वमावश्यकम् । नच तद्धतुताया. मेव मानाभावः । कृत्यसाध्ये प्रवृत्तिस्तु कृत्यसाध्यताशानस्य प्रति. बन्धकतया तत्र तदभावादेव नेति वाच्यम् । कृन्यसाध्यताज्ञानस्य प्रतिबन्धकत्वे कृतिसाध्यत्वाऽभावतव्याप्यतदवच्छेदकधर्मदर्शना. दीनां प्रतिबन्धकत्वस्य वक्तव्यतया तावदभावानां प्रवृत्ति प्रति हेतु. ताकल्पनापेक्षया कृतिसाध्यताशानत्वेन हेतुतायां लाघवस्य स्फुटत रत्वात् । कृतिसाध्यताशानाऽभावस्य सर्वदा सत्त्वेन प्रवृत्या. पत्तेश्च । . अपि च कृतिसाध्यताज्ञानस्य प्रवर्तकत्वे कृतिसाध्यत्वप्रकार• कपाकविशेष्यकज्ञानत्वावच्छिन्नाभावमानसं प्रति पाकादिगोचर. प्रवृत्तिसामग्न्याः प्रतिबन्धकत्वं न कल्प्यते इति लाघवम् । ताडश. प्रवृत्तिसामग्रीकाले पाकविशेष्यककृतिसाध्यत्वप्रकारकनिर्णयस्याऽऽवश्यकत्वेन, तस्य.च स्वरूपसत एवोक्तज्ञानाऽभावमानसे क्लप्रतिबन्धकतयैवोपपत्तेः। भवन्मते तादृशमामसे ताशप्रवृत्तिसामग्याः , प्रतिबन्धकत्व. कल्पनेन गौरवं स्पष्टमेव । एवमप्रामाण्यविशिष्टपाकविशष्येककृ. तिसाध्यत्वप्रकारकज्ञानवानहमिति मानसे पाकगोचरप्रवृत्तिलामम्याः प्रतिबन्धकत्वाऽकल्पनेनापि लाघवम् । ताहशविशिष्टवि. षयिताशालिमानससामग्रीकाले अप्रामाण्यज्ञानास्कन्दितोक्तशान. स्यावश्यकत्वेनाप्रामाण्यज्ञानानास्कन्दितपाकादिविशेष्यककृतिसा. ध्यत्वप्रकारकशानघटितताशप्रवृत्तिसामग्रीतादृशमानससामग्यो. मेलनस्यैवाऽभावात् । कश्चित्" इत्यादिना कृतम् । अस्यापि व्याख्यानं तत्रत्यन्यायकणिः कायां कृतम् तत्तत एवावगंतव्यमिति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy