SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५० दर्पणसहिते वैयाकरणभूषणसारे सिद्धत्वान् । आस्तिककामुकस्य नरकसाधनताज्ञानदशायामप्युत्कटेच्छाया द्वेषाभावदशायां प्रवृत्तेर्व्यभिचाराच्च । तस्मादिष्टसाधनत्वमेव प्रवर्तना। उक्तश्च(१)मण्डनमिश्रः हेतुमाह *द्वेषाभावेनेति* ॥ मधुविषसंपृक्तानभोजने द्विष्टसाधनता. शानात द्वेषविषये प्रवृत्तिवारणाय तद्विषयकप्रवृत्तिं प्रति तद्विषयकद्वेषस्य क्लत्पप्रतिबन्धकतया प्रतिबन्धकाभावविधयावश्यक्लप्तनि. यतपूर्ववर्तिताकद्वेषाभावेनैवोपपत्तौ बलवदनिष्टासाधनत्वस्य न हेतुत्वम् । तेनान्यथासिद्धरित्यर्थः । नन्वन्वयव्यतिरेकसहचार. शानस्य कारणत्वस्योभयत्र साम्यात् तेनैवास्यान्यथासिद्धिर्दुवारेत्यत आह* आस्तिकेति । __ स च परलोकाऽङ्गीकारवान् । तदनङ्गीकर्तुनरकसाधनताशा: नासम्भवात्तद्विशेषणमुपात्तम् । आस्तिकस्य नरकसाधनताज्ञानेन तत्र द्वेषावश्यम्भावेन प्रवृत्त्यसम्भवादाह *कामुकेति। तत्त्वश्चोस्कटरागवत्वम् । रागे उत्कटत्वं जातिविशेषो, विषयताविशिषो वा। प्रवृत्तरित्यस्यागम्यागमने इत्यादिः। द्वेषाऽभावदशायामित्यनेन द्वे. षसामग्रीवैकल्यं दर्शितम् । तच्च विषयतया द्वेषं प्रति उत्कटेच्छा. सामग्रीविरहविशिष्टद्विष्टसाधनताज्ञानस्य हेतुतया ताशसामग्या स्वातन्त्र्येण प्रतिबन्धकतया बोध्यम् ॥ ___*व्याभिचाराश्चेति* ॥ न हेतुरिति पूर्वणान्वितम् । अत एव,"श्ये. नेनाभिचरन् यजेत"इत्यत्र न विध्यर्थबाधः। बलवदनिष्टाननुबन्धि. त्वज्ञानस्याप्रवर्तकत्वेन तद्विषयस्य तस्य विध्यर्थत्वस्यैवाऽभावादिति भावः । उपसंहरति *तस्मादिति ॥ इष्टसाधनत्वमेवेत्येवका रेण कृतिसाध्यत्वबलवदनिष्टाऽननुबन्धित्वयोर्व्यवच्छेदः । आद्यस्य लौकिकप्रमाणेनैवावगमादन्त्यस्य प्रवर्तकशानाविषयत्वादिति भावः *प्रवर्तनति* । लिङाद्यर्थ इत्यर्थः ॥ इष्टाऽभ्युपायत्वादि । इष्ट. (१) विधिविधेके इतिशेषः। व्याख्यानं चास्य तैरेव तत्र "प्र. पूतिसमर्थो हि कश्चिद्भावातिशयो व्यापाराभिधानः प्रवर्तना। सा च क्रियाणामपेक्षितोपायतैव, न हि तथात्वमप्रतिपद्य तत्र प्रवर्तते
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy