SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः । क्यम् । बलवदनिष्टाननुबन्धित्वज्ञानं च न हेतुः, द्वेषाभावेनान्यथा १४९ एतेन बलवदनिष्टाऽननुबन्धित्वज्ञानस्य प्रवर्त्तकत्वमते बह्रायाससाध्ये कर्मणि प्रवृत्त्यनापत्तेः । बहुतरदुःखस्य तत्र जायमानखादल्पदुःखस्यापि कुतश्चित् बलवत्त्वेनानुगतबलवत्त्वस्य निर्वक्तुमशक्यत्वाच्चेति क्व तस्य विधिशक्यत्वसम्भावनेति केषाञ्चित् प्रल• पितं प्रत्युक्तम् । अथोक्तयुक्त्याऽनिष्टत्वेनाऽनिष्टसाधनत्वाभावज्ञानस्य न प्रवर्त्तकत्वं, किन्तु 'अगम्यां न गच्छेत्' 'शाकं न भुञ्जीत' इत्यादिवाक्यानां प्रामाण्योपपत्तये विशिष्य नरकत्वादिरूपेण तदसाधनस्य तः थात्वं वाच्यम् । तथाच शक्त्याऽऽनन्त्यं, शक्तिग्रहाऽनुपपत्तिश्चेति चेन । द्वेषविषयतावच्छेदकत्वो पलक्षितनरकत्वाद्यवच्छिन्न साधनतात्वावच्छिन्नाऽभावकूटे तादृशाऽभावत्वेनाऽनुगते एकैव विधिप्रत्यययस्य शक्तिः । उपलक्षणत्वादेव च द्वेषविषयतावच्छेदकत्वं परित्यज्य नरकत्वाद्यवच्छिन्नाऽसाधनत्वमात्रं प्रतीयते । कचिश्व नरकासाधनत्वं क्वचिद्भोगाऽसाधनत्वं प्रतीयते इत्यत्र तात्पर्यमेव नि. यामकम् । " नचाऽतिप्रसक्तस्योपलक्षणत्वाभ्युपगमे प्रमेयत्वस्यैव तथात्वमस्तु, साम्यादिति वाच्यम् । सुखाद्यसाधनत्वस्य विध्यर्थताविर हेण तत्साधारणप्रमेयत्वस्योपलक्षणत्वासम्भवात् । अत्यन्ताऽजनकसाधारणरूपस्य करणतावच्छेदकत्ववद् द्विष्टसाधारणरूपस्यापि द्विष्टोपलक्षणताकल्पनानौचित्यात् । तात्पर्याऽभावादेव सुखाद्यसाधनबोधनापतौ तस्य विध्यर्थत्वेऽपि न क्षतिरिति तु न युक्तम् । त था सति तु तत्तायणाधुनिकानां न भुञ्जीतेति प्रयोगापतेः । तस्माद् द्वेषविषयतावच्छेदकत्वोपलक्षितनरकत्वाद्यवच्छिन्न साधनतात्वावच्छिन्नप्रतियोगिताकाभावत्वेनानुगते तादृशाभावे वि. धिप्रत्ययस्य शक्तिरिति परिष्कृतं प्राचीननैयायिकमतं नव्यरीतिम-वलम्ब्य दूषयति *बलवदनिष्टेति ॥ निरुक्तबलवदनिष्टाजनक त्वज्ञानं चेत्यर्थः ॥ न हेतुःन प्रवृत्तिहेतुः । कचित् तथैव पाठः । त थाच न तद्विषयस्य विधिवाच्यत्वमिति भावः । तस्य प्रवृत्यजनकरके
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy