SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ૪૮ दर्पणसहिते वैयाकरणभूषणसारे पि यागादौ सर्वत्र तल्लोकत एव लभ्यत इत्यन्यलभ्यत्वान्न तच्छ *लोकत एवेति* ॥ लौकिकप्रमाणादेवेत्यर्थः (२) । अनन्यलभ्यो हि शब्दाऽर्थ इति न्यायादिति भावः । वस्तुतस्तु उक्तन्यायस्य पदान्तरलभ्यैव शक्तिरन्यथा कस्यापि पदस्य शक्तिर्न सिच्छेत् । सर्वस्यापि शब्दातिरिक्तप्रमाणगस्यत्वात् । किञ्च इष्टसाधनत्वादीनां स्वातन्त्र्येण यदि शक्यत्वं स्यात् तदा स्यादप्युक्तरीतिर्निराकरणक्षमा, किन्तु प्रवर्त्तकज्ञानविषयतावच्छेदकत्वोपलक्षणानुगतीकृतेषु सा । उपलक्षणस्य च कृतिसाध्यत्वसाधारणतया तत्रापि सिध्यन्ती शक्तिः केन प्रतिषेद्धयेति सन्त एवाऽधारयन्तु । यत्तु कृतिसाध्यत्वे वेदादवगतेऽप्यशक्तस्य यागादौ प्रवृत्त्यनुदयातु मदंशविशिष्टतज्ज्ञानस्यैव प्रवृत्तिहेतुत्वं वाच्यम् । तस्य च या.गो मत्कृतिसाध्यो, मत्कृतिसाध्यत्वविरोधिधर्माऽनधिकरणत्वान्म• त्कृतिसाध्यपाकचदित्यनुमानेनैव । ऽवगमान्नास्य शक्यत्वमित्याशय इति । तन्न । इष्टसाधनताज्ञानस्याऽपि मदंशविषयकस्यैव प्रवर्त्तकतया तस्य विधिवाक्यादलाभेनेष्टसाधनत्वे शक्त्यभ्युपगमेऽपि प्रषर्त्तकत्वानुपपत्तेरपरीहारात् । यदि तु प्रतिपुरुषं विधेरावृत्त्या बोधकत्वात्तेनैव तत्पुरुषीयेष्टसा धनबोधकत्वात्प्रवर्तकत्वोपपत्तौ नानुमानावश्यकत्वमिति विभाव्यते तदा कृतिसाध्यत्वेऽपि तुल्यमिति बलवदनिष्टाऽननुबन्धित्वस्य वि. ध्यशक्यत्वे, "न कलअं भक्षयेत्" इत्यत्र भक्षयेदित्यस्य भक्षणेऽनि-, ष्टसाधनत्वाबोधकतया निषेधविधित्वानुपपत्तिरिति तत्रापि विधिशक्तिरभ्युपेया । अनिष्टे बलवत्त्वं चेष्टोत्पत्तिनान्तरीयक दुःखातिरिकत्वम् । तेन नाऽऽयाससाध्ये कर्मणि प्रवृत्त्यनुपपतिः । 'कष्टं क मैं' इति न्यायेन सुखमात्रजनक कर्माऽसम्भवाश्च नोक्ताऽर्थस्य सिद्धिः । यदि च कदाचित्तत्सम्भवस्तदेष्टोत्पत्य नान्तरीयकत्वमेव तद्वाच्यम् । (२) अनुमानेनेत्यर्थः । अनुमानाकारश्च स्वयमेव प्रन्थकारेण यस्तु - इत्यादिनानूदिते मते यागोमत्कृतिसाध्यः इत्यादिनानुपदमेव स्पष्टीकृतः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy