SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ૪૬ दर्पणसहिते वैयाकरणभूषणसारे तेन रूपेणेष्टसाधनत्वस्य श्रुतेरनवगमाद्विधिवाक्यात् कथं प्रवर्त्तकज्ञाननिर्वाह इति विभाव्यते तद्दष्टतावच्छेदकत्वेन स्वर्गत्वादीननुगमय्य तदवच्छिन्न साधनत्वे विधेः शक्तिरुपगन्तव्या एवञ्च न विधेमनार्थत्वमपि । तदादिवत् । इष्टताऽवच्छेदकत्वस्योपलक्षणत्वोपगमाच्च न स्वर्गत्वादीनां तद्रूपेण भानापत्तिः । अथ स्वर्गकामो ज्योतिष्टोमेन यजेतेत्यत्र श्रुत्या स्वर्गसाधनत्वंज्योतिष्टोमे बोधनीयम् । तच्च न सम्भवति । वाजपेयादपि स्वर्गोत्पत्तेर्व्यभिचाराद्, वैजात्यस्य चोत्तरकालकल्प्यत्वेन पूर्वमनुपस्थितत्वादिति चेन्न । घरं द्रव्यत्वेनैव जानातीत्यादौ घटत्वोपलक्षित• व्यक्तितद्विशेष्यक द्रव्यत्वप्रकारकज्ञानाऽवगमवत् स्वर्गत्वाश्रययत्कि श्चिव्यक्तिसमानाधिकरणाऽभावाऽप्रतियोगित्वमेव श्रुत्या यागेऽवगम्यते, अथवा यागाऽनुत्तरकालाऽवृत्तित्वमेव स्वर्गत्वसामानाधिकरण्येनेति न कश्चिद्दोषः । अत एव साध्यष्टकत्वस्य विध्यर्थत्वमामनन्ति । अन्यथा सिद्धत्वं तु विधेः प्रवृत्तितात्पर्यकत्वाऽवधारणादुत्तरकालकल्प्यम् । इत्थञ्च ग्रहणश्राद्धादौ नित्यत्वनैमित्तिकत्वयोरिव नित्यश्राद्धस. मध्यादौ नित्यत्वकाम्यत्व योरप्यविरोधाल्लाघवाद्रात्रिसत्रन्यायेन । दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन् । सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥ इत्याद्यर्थवादोपस्थितपितृतृप्तिब्रह्मलोकाऽवान्यादिकमेव फलं कल्प्यते । यद्यप्यन्यत्र समवायघटितसामानाधिकरण्येनैव यागस्वर्गयोः कार्यकारणभावः क्लृप्तस्तथाप्युक्तवाक्यप्रामाण्याच्छ्राद्धपि. तृ तृप्त्योरुद्देश्यत्व समवायघटित सामानाधिकरण्येन स कल्पनीयः । कर्तृनिष्ठादृष्टस्य तु न पितृतृप्तिजनकत्वम् । व्यधिकरणत्वात् । श्राद्वानन्तरकृत कर्मनाशाजलस्पर्शादिना ( १ ) तन्नाशेन पित्रादिस्वर्गाs· नापत्तेश्च । पितॄणां मुक्तत्वेऽनुष्ठातय्यैव तत्कल्प्यताम् । अत एव, शास्त्राऽऽदेशितं फलमनुष्ठातरत्युित्सर्ग इति वृद्धाः । (१) कर्मनाशाजलस्पर्शात करतायाविलङ्घनात् । गण्डकीबाहुतरणाद्धर्मः क्षरति कीर्तनात् ॥ इत्यनया स्मृत्या कर्मनाशाजलस्पर्शादिना तन्नाशस्योक्तत्वात ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy