SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। १४५ उक्तश्च-- अस्ति प्रवर्त्तनारूपमनुस्यूतं चतुर्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया । न्यायव्युत्पादनार्थं वा प्रपश्चार्थमथाऽपि वा । विद्ध्यादीनामुपादानं चतुर्णामादितः(१) कृतम् ।। इति । प्रवर्तनात्वञ्च, प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् । त. चेष्टसाधनत्वस्यास्तीति तदेव विध्यर्थः । पाक्याद्विध्यादीनां बोधस्य सर्वसिद्धत्वेऽपि तत्तदूपस्य शक्यताव. च्छेदकत्वकल्पने गौरवादुक्ताऽनुगतरूपस्यैव शक्यतावच्छेदकत्वमु. चितमिति भावः। तत्र हरिसम्मतिमाह *उक्तश्चेति । *किम्भेदस्ये. ति* । तत्तद्रूपेण पार्थक्यस्येत्यर्थः । तत्तद्रूपेण शक्तरनङ्गीकारादि. ति भावः । तर्हि तथोपादानं सूत्रकृता किमिति कृतमतः आहन्या. येति ॥ न्यायः शक्तिः। तद्व्युत्पत्तये तनहायेत्यर्थः॥ ननु प्रवर्तनात्वेन प्रवर्तनायां शक्तिग्रहो विध्यादिसमस्तधर्मि. क एवेत्यत आह *प्रपञ्चार्थमिति* ॥ प्रवर्तनं प्रवृत्तिकरणमिति व्यु. त्पत्तर्ण्यन्ताद् युचि निष्पन्नप्रवर्तनाशब्दात् प्रवृत्त्यनुकूलव्यापार. लाभ इत्याह *तच्चेति ॥ निरुक्ताऽवच्छेदकत्वं चेत्यर्थः॥ *तदेवेति* ॥ इष्टसाधनत्वमेवेत्यर्थः । एवकारेण कृतिसाध्य. स्वादिव्यवच्छेदः । इष्टत्वं च समभिव्याहतपदोपस्थापितकामनावि. षयत्वम् । स्वर्गकामो यजेतेत्यत्र स्वर्गकामपदोपस्थापितकामनावि. षयत्वस्य स्वर्गे सत्त्वादिष्टत्वं तस्याऽक्षतम् । तेनैव च स्वर्गादीष्टा. नामनुगमः । यदि च सामान्यत इष्टसाधनत्वज्ञाने प्रवृत्त्यनुदयात् तत्तद्रूपेण स्वगत्वादिना स्वर्गसाधनताशानं तथा वाच्यम् । तथाच (१) आदितः इति । अदावित्यर्थः । आद्यादित्वात्तसिः। एवज्ञ प्रवर्तनासंप्रश्नप्रार्थनेषु लिङ् इति सम्यगितिभावः। वस्तुतस्तु प्रा. र्थनाया अपि प्रवर्तनायामन्तर्भावात् 'प्रवर्तनासंप्रश्रयोर्लिङ् इत्येवो. चितमिति ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy