SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे एत(१)च्चतुष्टयानुगतपवर्तनात्वेन वाच्यता लाघवात् । अपकृष्टोद्देश्यकताहशेष्टसाधनत्वबोधविषयाऽप्रयुक्तं लिङादिघटितं पाक्यमेवाऽऽज्ञोपदेशपदाभ्यां व्यपदिश्यते । तदेवाऽऽह *भृत्यादे. रिति* । आदिना शिष्यादिपरिग्रहः । तत्र लौकिकमुदाहरणं, भवा. अलमानयेदित्यादि । वैदिक, स्वर्गकामो यजेतेत्यादि । *नियोगका रणमिति । निमन्त्र्यते नियुज्यतेऽनेनेति व्युत्पत्त्या नियोगानुकूलो. व्यापारो निमन्त्रणपदार्थ इत्यर्थः ॥ _* आवश्यक इति* । श्राद्धभोजनादावित्यर्थः । प्रेरणेत्यस्य दौहि त्रादेरित्यादिः । तथाचावश्यके श्राद्ध भोजनादौ दौहित्रादेरिष्टसाध. नताबोधनं निमन्त्रणमिति फलितम् । ययेह भुजीत भवानिति । *कामचारेति । स्वाभिलषिते कामचारेण प्रवृत्तस्येष्टसाधनताबो. धनमित्यर्थः । * यथेहासीतेति* | अनुज्ञातुः प्रवृत्तिप्रयोजनस्यतर. प्रवृत्तिप्रतिबन्धेनैतत्प्रवृत्तिविषय इष्टसाधनताबोधनम् । यथारब्धं कुरुत, तत्कुरुष्व यथा हितमिति च । एतदादि सर्वोपलक्षणम् ॥ __*सत्कारपूर्वको व्यापार इति* । सम्मानपूर्वमध्यापनादिव्यापा. र इष्टसाधनमित्यर्थः । अयमेव चाऽभ्यर्थनेति व्यवहियते । उदाहर. णं, माणवकमध्यापयेद्भवानिति। सम्प्रश्ना=सम्प्रधारणम् । प्रार्थना तु स्वाभिलषितवस्तुदानादौ स्वीयेच्छाबोधनम् । यथा, भोजनं लभेयेति) (२)। *एनश्चतुष्टयोत* । विध्यादिचतुष्टयेत्यर्थः । *लाघवा. दिति । तस्य शक्यताऽवच्छेदकत्वकल्पने लाघवादित्यर्थः । विधि (१) ननु संप्रश्नस्य प्रवर्तनायामनन्तर्भावेऽपि प्रार्थनाया अन्त. भर्भावस्य संभवात् चतुष्टयेति कथनमसंगतमिति चेन्न । स्वाभिलषि. तदानादिविषयकेच्छाप्रार्थनम् तश्च न प्रवृत्तिजनकमन्यथासिद्धत्वा. दित्यभिप्रेत्य चतुष्टयेत्युक्तम् । (२) ( ) एतश्चिह्नान्तर्गतग्रन्थः पाठतया प्रतिभाति । लिखित. पुस्तके भावात् । अत्र स्थापनं चास्य परस्परेण परस्परस्यागतार्थत्वात्, पूर्वमुद्रितपुस्तके मुद्रितत्वात् प्रन्थलापनायाघश्यकत्त्वाच्च कृ. तमिति बोध्यम्।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy