SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। १४१ निमन्त्रणं नियोगकरणम् , अवश्यके प्रेरणेत्यर्थः। आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वकोव्यापारः । कं तु 'जलमाहर' इत्यादि । बोधः स्वयमूह्यः॥ *नियोगकरणमिति* ॥ 'विप्रं निमन्त्रयते' इत्यादितो विप्राश्रय. कप्रवृत्तिजनकभावनाबोधेन प्रकृते विनियोगपदार्थः प्रवृत्तिस्तत्क. रणं तदनुकूलो व्यापार इत्यर्थः। *आवश्यक इति । श्राखभोजनादिश्च । *तथा प्रेरणेति* | प्रवर्तनेत्यर्थः । अस्य दौहित्रादेरित्या. दिः । तत्राप्रवृत्तस्य प्रवृत्त्यनुकूलव्यापार इति यावत्। यथाह पह भुजीत भवान् इत्यादि। कामचारानुशेति । स्वेच्छया प्रवृत्तस्येतरत्र प्रवृत्तिप्रतिबन्धफलकस्वाभिलषितविषयकप्रवृत्त्यनुकूलो व्यापार इत्यर्थः । यथा 'इहा. सीताऽऽरब्धं कुरुत तस्कुरुष्व यथा हितम्' इत्यादि । उपवेशनादि व्यापार इष्टसाधनताशानात् प्रवृत्तावितरत्राप्रवृत्तिरर्थतः फलति(१) *सत्कारपूर्वको व्यापार इति* । अध्यापनादिव्यापारे सम्मा. नपूर्वकप्रवृत्त्यनुकूलो व्यापारोऽधीष्टपदार्थ इत्यर्थः। अयमेवाऽभ्य नेत्युच्यते । यथा 'माणवकमध्यापय' इति । उक्तेष्विष्टसाधनत्वे अ. नुकूलत्वं च प्रवृत्तिजनकतावच्छेदककोटिप्रविष्टतया बोध्यम् ॥ *सम्प्रधारणमिति । उपस्थितक्रिययोर्मध्ये एकतरक्रियाध. पैकेष्टसाधनत्वनिर्णयेच्छेत्यर्थः । यथा, किं भो वेदमधीयीयोत त. कमिति । स्वोदेश्यकत्वसम्बन्धेन सम्बोध्यविशिष्टा मनिष्ठा च. दाध्ययनतर्काध्ययनान्यतरभावनेष्टसाधनत्यप्रकारकनिर्णयेच्छावि. षय इति बोधः । एवमग्रेऽपि । (विधिः प्रेरणमिति। प्रेरणं प्रवर्तनमित्यर्थः। अप्रवृत्तप्रयोज्य. स्याऽज्ञातस्वाऽभिलषितोपाय इष्टसाधनताबोधनमिति यावत् । (१) अत्रैतत्समानार्थकोगुरुभूतः पाठोऽन्यत्र रश्यते सोऽयम-उ. पवेशनमात्रे प्रवृत्तस्यान्यदेशाधिकरणके तस्मिन्प्रवृत्ति प्रतिवध्य स्वाभिलषितैतहेशाधिकरणके तस्मिन् तद्विषयकेएसाधनतामानेन प्रवृत्तिजनमात् । एवमन्यत्रापि।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy