SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ दपेणसाह १४२ दर्पणसहिते वैयाकरणभूषणसारे यथा 'अस्य पुत्रोऽभवत्' इत्यादि । लिर्थमाह-प्रेरणादाविति ।। "विधिनिमन्त्रणामन्त्रणाधीष्ट. संप्रश्नप्रार्थनेषु लिङ्क" (पा० सू० ३।३ । १६१) इति सूत्रात् । तत्र, विधिः प्रेरणं भृयादेनिकृष्टस्य(४) प्रवर्तनम् । *अस्य पुत्र इति* । वर्तमानध्वंसप्रतियोग्यानद्यतनकालवृत्तिरे. तत्सम्बन्धिपुत्रकर्तृकोत्पत्त्यनुकूलो व्यापार इति बोधः । अध्यास्ते. त्यादौ तु भूताऽनद्यतनत्वमात्रविवक्षया लकुपपत्तिः । सुत्राद् विध्या. 'दीनां लिङर्थत्वप्रतीतेः, कथं प्रेरणादेर्विध्यर्थत्वमत आह*तत्रेति* । तेषु मध्ये इत्यर्थः। *विधिः प्रेरणमिति । प्रेरणापर्यायो विधिश. ब्द इत्यर्थः। प्रेरणाया लिङादिशब्दस्वरूपतां वदतां मत निराक. * प्ररणायाः स्वरूपं दर्शयति *भृत्यादेरित्यादि। अयम्भावः । यद्विषयकत्वेन ज्ञानस्य प्रवृत्तिजनकत्वं सैव प्रव. ना। तादृशविषयतानिरूपकत्वं चेष्टसाधनताया एव तद्विषयकत्वे. नैव स्वपरज्ञानात्प्रवृत्तेः सर्वसंमतत्वात् । न तु लिङादीनाम् । तद्वि. षयकशानात् प्रवृत्यनुदयात् । सा यदि वक्त्रपेक्षयाऽपकृष्टोदेश्यक प्रवर्तकज्ञानविषयीभूता तदा प्रेरणेत्युच्यते । अन्यारक् तु निमन्त्र. णादिपदव्यपदंश्या। तथाच स्वाभिलषितोपायाऽज्ञानादप्रवृत्ताप. कृष्टप्रयोज्यस्योपायविषयकप्रवृत्त्यनुकूलो व्यापारः प्रेरणेति पर्यवस्य. तीति । अधिकमप्रे वक्ष्यते। ___ तत्र वैदिकमुदाहरणं, 'स्वर्गकामो यजते इत्यादि । स्वर्गकामा. भिन्नकर्त्तकयागभावना स्वादीष्टसाधनमिति वैयाकारणमते बोधः । भावनायामिष्टसाधनत्वं तु प्रत्यासत्या स्वर्गकामस्येव । तारशश्चा. हमिति अभिसन्धाय यागादी नियोज्यस्य प्रवृत्तिनिवहति । लौकि. (४) निकृष्टस्येति । नच भृत्यपदेनैव निकृष्टत्वलामे निकृष्टपदम व्यमिति वाच्यम् । स्वसमानस्य-उत्तमस्य च परभृत्यस्य प्रवर्त. मायामातव्यास्पिवारणार्थत्वेन तस्य चरितार्थत्वात् । दत्ते च निकृ. 'पदे तस्य ससम्बन्धकतया स्वापक्षयैव निकृष्टभृत्यस्य स्वीकारः नतु परपेक्षया निकृष्टस्व स्वापेक्षयोत्तमस्य चेतियोध्यम् । ...
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy