SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। १४१ वक्ष्यते । लोडर्थमाह ॥ प्रार्थनेति ॥ आदिना विध्यावाशिषो गृह्यन्ते । "आशिषि लिङ्लोटौ" ( पा० सू० ३ । ३ । १७३) "लोट् च" इति (पा० मू० ३ । ३ । १६२) सूत्राभ्यां तथाऽवगमात् । यथा, 'भवतु ते शिवप्रसादः' इत्यादौ । एतयोरयों लिङर्थ एव । त्रयाणां समानार्थत्वादिति तन्निर्णये. नैव निर्णयः ॥ २२ ॥ लडादिक्रमेण डितामर्थमाह-- ह्योभूते प्रेरणादौ च भूतमात्रे लङादयः ॥ सत्यां क्रियातिपत्तौ च भूते भाविनि लङ् स्मृतः ॥२३॥ - लर्थमाह ॥ बोभूत इति ॥ अनद्यतने भूत इत्यर्थः । . "अनघतने ल" (पा० मू० ३।१।१११) इति सूत्रात् । एवञ्च वर्तमानप्रागभावप्रतियोग्युत्पत्त्यनुकूलो घटाश्रयको व्या. पार इति वैयाकरणमते बोधः । तथाचोत्पत्त्यघटिते भविष्यत्वे लडादेः शक्तिलाघवात्तदघटिते तु लक्षणेति न नङ्कयतीत्याधुक्तस्थले उत्पत्तिबोधानुपपत्तिरिति _*विध्याशिषाविति । आशीस्तु संबोध्यहितविषयकलोडाद्यन्त शब्दप्रयोक्त्रिच्छा(१)। *भवतु ते इति । हितविषयकमदिच्छाविषयत्वत्सम्बन्धिशिवप्रसादकत्र्तृकं भवनमिति बोधः। *एतयोरिति । लेट्लोटोरित्यर्थः । *त्रयाणाम् * । लेट्लोलिङामित्यर्थः। *तनि: नयेनैवेति । लिङर्थनिर्णयेन इत्यर्थः ॥ २२॥ हः पदस्याव्यवहितातीतदिवसे रूढतया तदात्मककालस्य लङर्थत्वेनैकदिनान्तरितभूते लङनुपपत्तिरत आह *अनद्यतन इति । तथाच मापदं लक्षणयाऽनद्यतनत्वेनाद्यतनमात्रबोधकमिति नोक्तदोषावकाशः । एवं श्वोभाविनीत्यत्राऽपि बोध्यम् । (१) तस्या विषयतासंबन्धन कारकविशिष्टक्रियायामन्वयः । तदेवाह-हितविषयकमदिच्छाविषयेत्यादि ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy