SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे लेटोऽर्थमाह ॥ विध्यादाविति || “लिङथें लेटू" ( पा० सू० ३ | ४ १ ७ ) इति सूत्रात् । लिङथेश्व विध्यादि (१) रिति १४० व्यत्वात् तदादायैव लडुपपत्तिरिति यथाश्रुतार्थानुसारिणः ॥ अन्ये तु ननु येषां मते नश्यत्यादिधातूनां नाशमात्रमर्थस्तेषां भविष्यत्वस्य वर्त्तमानप्रागभावप्रतियोगित्वसत्त्वे, श्वोभाषिनाशके परश्वो नयतीति प्रयोगापत्तिः । वर्त्तमाननाशप्रागभावप्रतियोगिनि तन्नाशे परश्वस्तन कालवृत्तित्वसत्त्वात् । नच परश्वस्तनकालस्य भविष्यत्त्वघटकप्रागभावेऽन्वयाभ्युपगमात् तस्य च तत्प्रागभावे बाधान्नोक्तप्रयोगापत्तिरिति वाच्यम् । तथा सति श्वोभाविनाशकेऽपि श्वो नयतीति प्रयोगाऽनुपपत्तिः । तनाशप्रागभावे श्वस्तन कालसम्बन्धबाधादत आह#तत्वञ्चोति । अत्र समयपदोपादानं, कालो लडाद्यर्थ इत्यभिप्रेत्य, न तु तस्य लक्षणे निवेशः, प्रयोजनाभावाद् विद्यमानप्राभाषप्रतियोग्युत्पत्तिकत्वस्यैव सम्यक्त्वात् । यत्र तुत्पत्तिरेव (२) धात्वर्थस्तत्र तदघटितमेव तश्चिर्वक्तव्यम् | अन्यथोत्पत्तेद्वैधा भानप्रसङ्गात् । एवञ्चोक्तस्थले भः विष्यत्त्वघटकोत्पत्तौ परश्वस्तनकालवृत्तित्वबाधानोक्तप्रयोगापति. रितत्थिमवतारयन्ति । अत्रेदमवधेयम् । इहाद्य घटो भविष्यतीत्यादौ देशकालविशेषा. देरधिकरणत्वेन धात्वर्थोत्पत्तावेवाऽन्वयः । ननु भविष्यत्त्वघटकप्रागभावे उत्पत्तिमति वा, तथा सति कपालनाशजन्य घटनाशस्थले, इह कपाके घटध्वंसो भविष्यतीति प्रयोगाऽऽपत्तेर्घटरूपप्रतियोग्यात्मकघटध्वंसाभावस्य कपाले सत्त्वादेवं श्वो भाविन्यद्य भविष्यतीति प्रयोगप्रसङ्गश्च | अद्यतन कालवृत्तित्वस्य प्रागभावे सत्त्वात् । तथा, भवने श्वः समुत्पद्य प्राङ्गणे परश्वो गमिष्यति मैत्रे, प्राङ्गणे परखो भविष्यतीति प्रयोगाऽऽपत्तिः । उत्पत्तिमतो मैत्रस्य प्राङ्गणवृत्तित्वात्, परश्वस्तन कालवृत्तित्वाच्च । यथात्वे तु तस्य परश्वस्तन कालवृत्ति स्वेऽप्युत्पत्तेस्तत्कालवृत्तित्वान्न कश्चन दोषः । (१) अत्रादिपदम् तत्सूत्रोपात्तनिमन्त्रणादिसंग्रहार्थम । (२) नैयायिकमतेनेदम् ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy