________________
लकारार्थनिर्णयः । लुडर्थमाह ॥ वो भाविनीति । अनद्यतने भाविनीत्यर्थः । "अनघतने लुट्" (पा० सू० ३ । ३ । १५) इति सूत्रात् । यथा वो भवितेत्यादी।
लडथमाह ॥ भविष्यतीति ॥ भविष्यत्सामान्ये इत्यर्थः । (१)"लुट् शेषे च" (पा० मू० ३ । ३ । १३ ) इति सूत्रात् । यथा घटो भविष्यतीत्यादौ । तत्त्वश्च वर्तमानप्रागभावपतियो. गिसमयोत्पत्तिमत्वम् ।
*अनद्यतन इति । अतीताव्यवहितरात्रिपश्चार्द्धविशिष्टाऽऽगा. मिरात्रिपूर्वाोपेतं दिनमद्यतनमेतद्भिन्नकालत्वमनद्यतनत्वमिति वृ. त्तिकारादयः । कैयटस्तु-लसूत्रेऽतीतरारन्त्ययामेनाऽऽगामिराराद्ययामेन सहितो दिवसोऽद्यतन इत्यूचे।
अत्रेदमवधेयम् । अनद्यतनभूते यदा भूतत्वमात्रविवक्षा तदा लुङेव । तेन होऽपाक्षीदित्यादौ भूतत्वमात्रविवक्षायां लुङि, पश्चाद् मापदेन सम्बन्धे नाद्यतनत्वप्रतीतिरिति न लुङोऽसाधुता । एवमनद्यतनभविष्यति भविष्यत्वमात्रविवक्षया लटश्वोपेक्ष्यमाणे, 'देव. ता वसन्ति' इत्यत्र पश्चाद्धयनद्यतनत्वप्रतीतिरिति ॥
परे तु सानयागस्य व्यहात्मककालसाध्यत्वात्तदधिकरणद्वयहात्मककालस्थानद्यतनत्वाभावेन लुटोऽनवसराल्लडपपत्तिः। 'अयप्र. भृति मे दाशब्रह्मचर्य भविष्यति' इतिवदित्याहुः ॥
ननु 'अहमेकः प्रथममासं वामि भविष्यामि च' इत्यत्र धात्व. थकाद्भविष्यदर्थकप्रत्ययाप्रसक्तिरत आह *तत्वञ्चति । वर्तमानप्रागभावप्रतियोग्युत्पत्तिकसमयवस्वमिति पाठः । तथाच तदर्थव्यापाराधिकरणस्य कालस्यानित्यराजक्रियाऽऽद्यात्मकस्योक्तभवि.
(१) अत्र "भविष्यति गम्यादयः" इतिसूत्रात् “भविष्यति" इत्य. नुवर्तते । शेषत्वश्चात्र क्रियार्थकक्रियावाचकपदासत्वम् । चका. रंण क्रियार्थकक्रियावाचकपदसत्वेऽपि लप्रयोगः। एवं च-ताह. शार्थकोपपदेऽनुपपदे च भविष्यक्रियास
म तोलन भवति इति सूत्रार्थः ।