________________
१३८ दर्पणसहिते वैयाकरणभूषणसारे ____ कथं तर्हि, "व्यातेने किरणावलीमुदयनः" इति स्वक्रियापाः स्वप्रत्यक्षत्वादिति चेत् । असङ्गतमेव | व्यास(१)ङ्गादिना. स्वव्यापारस्य परोक्षत्वोपपादनेऽपि, बहुतरमनःप्रणिधानसाध्य. शास्त्रार्थनिर्णयजनकशब्दरचनात्मक ग्रन्थेऽनद्यतनत्वाऽतीतत्व. योर्विस्तारक्रियायामसवेन अनधनातीतत्वयोरभावेन तदर्थक. कलिडसम्भवात् ॥
पूर्वपक्षस्य निर्दलत्वापादानमपि स्वाग्रहमूलकमेव अत एष भाग्ये, पश्य मृगो धावतीत्यनेन लौकिकविषयताशाल्यर्थकदृशिकर्मत्वं धा. घतेः प्रतिपादितम् । कथमन्यथा आगारान्तरस्थितस्य ने ताहशप्र. योगः । मृगकर्तकधावने ज्ञानविषयत्वरूपज्ञानकर्मत्वाऽवाधात् । धा. पतेः संयोगरूपफलार्थकत्व व्यापारवाचकत्वाभावादधातुत्वप्रस. अश्व । स्वजनकव्यापारगतपौर्वापर्यारोपेण क्रियात्वोपपादने चाप्रत्य. क्षत्वापत्तिस्तदवस्थैवेति न किञ्चिदेतत् । तस्मात् पूर्वोक्तमतमेव निराबाधमिति ॥ ___ *व्यासङ्गादिनेति । यथा, "मत्तोऽहं किल विललाप" इत्यत्र मदादिना मनोऽसन्निधानात् क्रियापारोक्ष्यं तद्वदित्यर्थः। *लिड. सम्भवादिति*॥ ___ अत्रेदं चिन्त्यम् । न वास्तवं पारोक्ष्यादि लिडादिनियामकम् । 'अध्यास्त सर्व सुखामयोध्याम्' इत्यत्र लङोऽसाधुतापत्तेः। किन्तु वैवक्षिकं तत् । तथा वक्ष्यति च स्वयमेव सारकृत् 'अनद्यतनभूतत्वेन विवक्षिते लङ्, तत्रैव पारोक्ष्यविवक्षायां लिट्' इति । प्रकृते चाs नायासनिष्पन्नत्व-शीघ्रनिष्पन्नत्व-प्रतीतिफलकभूतानद्यतनत्वविव. क्षाया, एवं सूक्ष्मकालेन करिष्यामि यत्र काले मयाऽपि साक्षात्क.
मशक्यामति प्रतीतिफलकपारोक्ष्यविवक्षायाश्च सत्त्वाल्लिडपपत्ति. सम्मवादिति ॥
(१) ननु विषयान्तरसंचाररूपव्यासंगादिना स्वव्यापारस्य व्या. पाराविष्टस्य च स्वप्रत्यक्षाभावरूपपारोक्ष्यसंभवान लिदप्रयोगासं. मंतिरित्याशक्य भूतवाद्यसंभवनिबन्धनां तामाह-व्यासंगादिति ।