________________
१३६
दर्पणसहिते वैयाकरणभूषणसारे
शक्या पिण्डीभूता निदर्शयितुम्” इतिभाष्यात् तस्या अतीन्द्रियस्वेन परोक्षे इत्यव्यावर्त्तकमिति ( १ ) शङ्कथम् । पिण्डीभूताया निदर्शयितुमशक्यत्वेऽप्यवयवशः (२) साक्षात्करोमीति प्रतीतित्रिषत्वसम्भवात् । अन्यथा 'पश्य मृगोधावति' इसत्र तस्या दर्शनकर्मता न स्यादिति प्रतिभाति ।
I
यावत् । *पिण्डीभूतेति । अवयवानामाशुविनाशित्वेन पिण्डस्यैवाभावादिति भावः । ननु तर्हि तस्यां किं प्रमाणमत आह-* साक्षा दिति । विक्लित्त्यादिरूपकार्थ्याऽनुमेयेति । *अन्यथेति । क्रियाया अवयवशोऽपि साक्षात्कारानभ्युपगम इत्यर्थः । *प्रतिभातीति । उतार्थ एवास्मबुद्धिविषयो भवतीत्यर्थः ।
1
ननु क्रियाऽवयवा अपि क्रियावदतीन्द्रिया एव । यथा पचेरुदकसेचनादयोऽवयवास्तथा तेषामप्यवयत्रास्तेऽपि समूहरूपेणैव धातुवाच्याः । यस्तु क्षणावच्छिन्नस्तद्रूपोऽवयवः स तु न धातुवाच्यः, किन्त्ववयवसमूहाSSत्मनैव । आश्रितक्रमरूपत्वात्तद्वाच्यस्य । एवञ्च सदसदूपा क्रिया न सद्विषयेन्द्रियग्राह्या । तदुक्तं
क्रमात् सदसतां तेषामात्मना न समूहिनः सद्वस्तुविषयैर्यान्ति सम्बन्धं चक्षुरादिभिः ॥ इति ।
अत्यन्तापरदृष्टेति भाष्यस्यऽिप्यवयवरूपेण समूहात्मना चाऽहष्टेत्येवाऽर्थः । अत एव, "वर्त्तमाने लड्" इति सूत्रे भाष्ये, "अस्ति वर्त्तमाकालः, परं त्वाऽऽदित्यगतिवन्नोपलभ्यते" इत्युक्तम् । तस्य प्रत्यक्षणेति शेषः ।
एवञ्च वर्त्तमानत्वाक्रान्तक्रियाणां स्पष्टमेवाप्रत्यक्षत्वं तत उप(१) अव्यावर्तकमिति । अयमभिप्रायः । कस्याश्वित्क्रियायाः प्र. त्यक्षत्वे तथाविधाभिप्रायेण तादृशप्रयोगव्यावर्तनाय 'परोक्षे' इति पदं सार्थकं भवेत् । "क्रियानामेयं" इति भाष्येण तु सकलार्क्रियाणां प्रत्यक्षाविषयत्वावगमात्, तद्यर्थमेवस्यादिति ।
(२) अवयवश इति । एकैकस्यावयवस्येत्यर्थः । "संख्ये कवच - नाच वीप्सायाम्" ( पा० सू० ५ । ४ । ४३ ) इतिशस् ।