SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः । योगः । परोक्षत्वञ्च साक्षात्करोमी येतादृशविषयताशालिज्ञाना विषयत्वम् । नच “क्रिया नामेयमत्यन्तापरदृष्टा पूर्वापरीभूतावयवा न १६५ पपाचेत्यादिजबोधानन्तरमनद्यतनत्वादिसन्देहाऽनुदयाद् भूतत्वादिवत्तयोरपि तद्वाक्यजबोधे क्रियांशे विशेषणतया भानमभ्युपेयम् । तश्च वाचकतां द्योतकतां वा विनाऽनुपपन्नमिति लिटस्तदभ्युपगम आवश्यक इति भावः ॥ ननु परोक्षत्वं प्रत्यक्षान्यज्ञानविषयत्वम् । तथाच प्रत्यक्षक्रियायामपि श्रुतानुमितत्वयोः सत्त्वात् पपाचेत्यादिप्रयोगापत्तिरत आह*पराक्षत्वश्चेति । यथाश्रुतप्रत्यक्षाविषयत्वस्योपनीतक्रियायामभावेन तत्र पपाचेत्यादिप्रयोगानुपपत्तिरत आह- *साक्षात्करोमीति* । साक्षात्करोमीत्येतत्प्रतीतिसाक्षिकलौकिकविषयत्वाभाववत्त्वमित्यर्थः । उक्तस्थले प्रत्यक्षविषयतासत्वेऽपि तादृशविलक्षणविषयत्वाभा ववत्त्वमक्षुण्णमिति न तदनुपपत्तिः । प्रत्यक्षं तादृक्षशब्दप्रयोक्तुग्रह्मम् (९) । ननु दशमस्त्वमसीत्यादौ शब्दादप्यपरोक्षज्ञानस्य दृष्टत्वेन शब्दजन्यतादृशज्ञानविषयेंद्रियासंबन्धक्रियायां लिडनुपपत्तिरितिचेन्न । तत्रापि शाब्दज्ञान सहकृतमनसैव दशमसाक्षात्कारो, न तु शब्दात् । लौकिक विषयतानियामकेन्द्रियसंयोगादेरभावे शाब्दे तद्वत्त्वाऽसम्भवात् । अत एव तत्त्वमसीत्याद्याचाय्यपदेशशमदमादिसंस्कृतं मन आत्मदर्शने कारणमिति गीताभाष्ये उक्तमिति सर्व समञ्जसम् । "क्रिया नामेयम्” इति भाष्ये साऽसावनुमानगस्येति शेषः । क्रियासाध्यत्वेन प्रतीयमाना, इयं पचतीत्यादिव्यवहारविषयभूता । यतः पूर्वापरीभूता क्रमिका नैकव्यापारसमूहात्मिका, अतोऽत्यन्तापरदृष्टा=परेण प्रत्यक्षप्रमाणेन । ऽत्यन्तमदृष्टा तज्जन्यज्ञानाविषया इति (१) तेनान्यस्य प्रत्यक्षत्वेऽपि तदादाय न लिडन्तपपाच त्यादि. प्रयोगस्यानुपपत्तिरुद्भावनीयेतिभावः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy