________________
दर्पणसहिते वैयाकरणभूषणसारे
तच्च वर्त्तमानत्वादि लडादिभिर्योत्यते । क्रियासामान्यवाचकस्य तद्विशिष्टे लक्षणायां लडादेस्तात्पर्यग्राहकत्वेनोपयो गान् | अन्वयव्यतिरेकाभ्यां तद्रूपं लडादिवाच्यमेव । अन्यथा प्रत्ययनां वाचकत्वत्रिलोपापत्तिरित्यपि पक्षान्तरम् 1
लिडर्थमाह || "परोक्षे इति ।। "परोक्षे लिट् ” ( पा०सू० ३/२/११५) इतिसुत्रात् । कालस्तावदद्यतनानद्यतनभेदेन द्विविधः। द्विविधोऽपि भूतभविष्यद्रूपः । तत्रानद्यतने भूते परोक्षे लिडियर्थः । तेनाथतने भूते, अनद्यतने भविष्यति, भूतेऽप्यपरोक्षे च न लिटून
१३४
-
भाविक्रियागतभविष्यत्त्वारोपाश्च योज्या इत्यर्थः । पक्षद्वयस्यैवाऽsकरारूढां प्रदर्शयन् प्रथमद्योतकत्वपक्षे उपपत्तिमाह *तश्चेति* । *क्रियासामान्येति* । कालसामान्यवृत्तिक्रियावाचकस्येत्यर्थ:
*तद्विशिष्टे* । वर्त्तमानकालादिविशिष्टे, वर्त्तमानत्वादिविशिष्ठे वा व्यापारे इत्यर्थः । लडादेरित्यादिना लिडादिपरिग्रहः । *उपयोगादिति । स च प्राक् प्रतिपादितः । तथाच लडाद्यादेशत्वेन तिबादीनां वर्त्तमानत्वादिद्योतकत्वाश्चापाक्षीदित्यादौ वर्त्तनानक्रियाप्रतितिः । क्रियासामान्यशक्तधातोस्तत्तद्विशिष्टे लक्षणयैव तत्तद्विशिष्टक्रियाबोधोपपत्तौ पृथग्वर्त्तमानत्वादौ तेषां शक्तिकल्पने गौरवादिति भावः । वाचकत्वपक्षमवलम्ब्याऽऽह * अन्वयव्यतिरेकाभ्या मित्यादि ।
नच तक्र कौण्डिन्यन्यायात् कर्त्राद्यर्थबाधः, शक्तताऽवच्छेदकभेदात् । किञ्चैव, "लः कर्मणि” इतिसूत्रं निरवकाशं स्यात् । स्थलान्तरेऽपि विध्याद्यथैर्बोधसम्भवादिति भावः । अन्यथा अन्वयव्यतिरेकयोः शक्तयग्राहकत्वे । *विलोपापत्तिरिति । सर्वत्र प्रकृत्यैव तत्तस्प्रत्ययार्थत्वाभिमतबोधसम्भवादिति भावः । अधिकं सुबर्थनिर्णये
वक्ष्यते ॥ * अनद्यतने भूते इत्ति* | "भूते" ( पा० सू० ३ । २ । ४ ) इति “अनद्यतने लङ्” (पा० सू० ३ । २ । १११) इति सूत्राभ्यां तत्तत्पदानुषृत्तिरिति भावः । *न लिट्प्रयोग इति* । उक्तार्थस्य बाधात