________________
लकारार्थनिर्णयः।
१३३ ।
मृह्यम् । उक्तं हि भाष्ये (१)"इह भूतभविष्यद्वर्तमानानां राज्ञां क्रियास्तिष्ठतेरधिकरणम्" इति
परतो भिद्यते सर्वमात्मा तु न विकम्पते । पर्वतादिस्थितिस्तस्मात् पररूपेण भिद्यते ।।
इति वाक्यपदीये च । एवं “तम आसीत्" तुच्छेनाभ्यपिहितं यदामी" "अहमेकः प्रथममासं, वामि च, भविष्यामि च" इत्यादिश्रुतयोऽपि योज्याः ।
तत्र स्वोत्प्रेक्षित्वं निरस्यति *उक्तं हीति*। *तिष्ठतेरधिकरणमिति । आधेयतासम्बन्धेन ताहशक्रियात्मककालविशिष्टत्वात् तासामिति भावः । अनेन भाष्येण, वस्तुतस्त्वित्यादिना उक्तकल्पस्यैव साधुत्वं लभ्यते । तस्मिन्नुक्तलक्षणलक्षितकालस्यैव सर्वत्र क्रियायामाधेय. तयान्वयलाभात्॥ __*परतो भिद्यते इति* | सर्व पच्यादिधात्वर्थसामान्यं परत:स्वाऽपेक्षयाऽन्येन वर्तमानत्वादिना। भिद्यते-व्यावर्त्यते । आत्मा त्वित्यत्रात्मादिपदमात्मसत्ताद्यर्थकं, न विकम्पते सनातनत्वेन निर. वयवत्वादुक्तविशेषणसम्बन्धाऽभावेन भेदाऽनुमितिविषयो न भव. तीत्यर्थः । तथाचाऽऽत्मास्तीति प्रयोगाऽनुपपत्तिरिति पूर्वार्द्धार्थ समाधत्ते तस्मादिति* । विशेषाऽतिरिक्तपदार्थस्य स्वतो. व्यावृ. तत्वासम्भवादित्यर्थः । पर्वतादीत्यादिनाऽऽत्मादिपरिग्रहः। __ पररूपेणेति । परस्य राजक्रियादिरूपार्थस्य, रूपेण-धर्मेण वर्तमानत्वादिना भिद्यते इत्युक्त एवार्थः । *तम इत्यादि । तम(२) असीदित्यादयो भूतक्रिगगतभूतत्वारोपात् । *भविष्यामि चेति ।
(१) एतत कैयटः 'राज्ञां स्थितिभूतादिभेदेन भिन्ना पर्वतादिस्थि. त्यादेभैदिकोत क्रियारूपत्वं कालत्रयश्चोपपद्यते' इति व्याचष्ट ।
(२) तम आसीदिति । अत्र तमः शब्दोऽज्ञानवाचकः । 'तमसा नष्टबुद्धिर्न किंचिजानाति । इत्यादिप्रयोगेषु तस्याज्ञानबोधकत्वं रष्टम् । एवञ्च तमसः सर्वदा सत्वेन भूतकालार्थकप्रत्ययप्रयोगोऽपात्थमेष निर्वहति ।