________________
१३२ दर्पणसहिते वैयाकरणभूषणसारे ___आत्माऽस्ति पर्वताः सन्तीयादौ तत्तत्कालिकानां राज्ञां क्रियाया अनित्यत्वात्तद्विशिष्टस्योत्पयादिकमादाय वर्तमानत्व
वाच्यः। तद्गतं वर्तमानत्वं च तत्तच्छब्दप्रयोगाधिकरणत्वमेव । सदादिन्यायेन शब्दप्रयोगाधिकरणत्वेनाऽनुगमाच न शक्त्यानन्त्यम् ।
यद्येवमपि तत्तत्कालत्वेन तत्तत्कालबोधस्यानुभवसिद्धानुपप. त्तिरिति विभाव्यते तदास्तु शब्दप्रयोगाऽधिकरणवृत्तिकालत्वव्या. प्यधर्मत्वेनोपलक्षिततत्तत्कालत्वावच्छिन्न एव लटः शक्तिः। क्रियारम्भात् पूर्व समाप्त्युत्तरं चाऽधीते पचतीत्यादिप्रयोगापत्तिस्तु स्व. वृत्तिप्रागभावाऽप्रतियोगिवृत्तित्वस्ववृत्तिध्वंसाऽप्रतिप्रकृतक्रियाऽनु. योगिकत्वाभ्यां विशेषितेन आधेयतासम्बन्धेनाऽन्वयनियमोपगमेन चारणीया।
यत्र तु खण्डक्रियैव(१) धात्वर्थस्तत्र शुद्धाधेयतासम्बन्धेनैव तदन्वयानाऽऽत्माऽस्तीत्यादौ दोष इति । भूतभविष्यद्भिन्नत्वं वेत्यत्र घाकारोऽनास्थायाम् । पूर्वलक्षणापेक्षयाऽस्य गुरुत्वाद्भविष्यत्त्व. स्यापि वर्तमानत्वघटितत्वेन तद्ब्रहे, भविष्यत्वग्रहे च तदवच्छिन्न. स्वरूपवर्तमानत्व ग्रह इत्यन्योऽन्याश्रयाश्च । एवं भूतत्वमादायाप्य. न्योन्याश्रयो द्रष्टव्यः।
ननु सत्ताश्रयत्वादीनां धात्वर्थत्वे तत्राऽसङ्गतिः। तेषामखण्डस्वेनाऽवयवघटितोक्तलक्षणवर्तमानत्वासम्भवादत आह *आत्मास्ती. ति*। *अनित्यत्वादिति सावयवत्वेन प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वादित्यर्थः। तद्विशिष्टस्यानित्यराजक्रियादिविशिष्ट. सत्तादिरूपार्थस्येत्यर्थः । तथाच केवलसत्तादिरूपाऽर्थे तदसत्त्वे. ऽप्युक्तविशेषणविशिष्टे तस्मिन् विशेषणांशमादाय तत्सत्त्वं नाऽनु. पपत्रमिति भावः। __यद्वा तद्विशिष्टत्यस्य तदा अव्यवहितत्वादनित्यत्वस्यैव पराम. र्शात् तादृशक्रियागतं वर्तमानत्वमारोप्य सत्ताद्यर्थको .लडित्यर्थः।
(१) सनातनक्रियैव धात्वर्थः इत्यपि पाठः ।