SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। १३१ ॥ अथ लकारार्थनिर्णयः ॥ प्रत्येकं दशलकाराणामर्थ निरूपयतिवर्तमाने परोऽक्षे श्वोभाविन्यर्थे भविष्यति ॥ विध्यादौ प्रार्थनादौ च क्रम्राज्ञया लडादयः।। २२॥ लडादयष्ठितः षट् क्रमेणैवर्थेषु द्रष्टव्याः । तथाहि । वर्तमाने ऽर्थे लट् । “वर्तमाने लद्" ( पा० स० ३ । १ १८३) इति सूत्रात् । प्रारब्धापरिसमाप्तत्वं, भूतभविष्यद्भिन्नत्वं वा वर्तमानत्वम् । पचतीत्यादावधिश्रयणायधः श्रयणान्ते मध्ये त. दस्तीति भवति लट्प्रयोगः। लकारसामान्यार्थे निरुपिते तद्विषयकजिज्ञासानिवृत्ताववश्य. वक्तव्यत्वज्ञानाद्विशेषार्थनिरूपणेऽवसरस्य सङ्गतित्वं सूचयभाह-*प्र. त्येकमिति* | *दशलकाराणामिति । लट् लिट् इत्यादिक्रमेण पठितानामित्यर्थः । आदेशानां वाचकत्वमिति पक्षेऽपि तिङाधादे. शनिष्ठां बोधकतारूपां शक्ति लडादिवारोप्य तद्विधानात् तदर्थकत्वं तेषामक्षतमिति भावः ॥ *प्रारब्धापरिसमाप्तत्वमिति* । विनष्टाद्यवयवप्रागभावकत्वे सत्यनुत्पन्नध्वंसान्त्यावयवकत्वमित्यर्थः। भाविभूतक्रिययोरतिप्रसवारणाय क्रमेण पदद्वयम् । लक्ष्ये लक्षणं ग्राहयति *पचतीति । *अधिश्रयणादीति । साध्यत्वंप्रकारकप्रतीतिविषयपूर्वापरीभूतावयवसमुदायस्यैव क्रियात्वादिति भावः॥ __*तदिति*। उक्तवर्तमानत्वमित्यर्थः। यद्यपि भावकालकारकसं. ख्याश्चत्वारोऽर्थी आख्यतस्येति निरुक्तकालस्यैव वर्तमानत्वादिक प्रतीयते, तथापि निरुपाधिकस्य तस्य वर्तमानत्वादिना प्रत्येतुमश. क्यत्वादुपाधिभूतक्रियामादायैव तत्र तत्वस्य वक्तव्यतयाऽऽवश्यक. स्वात क्रियायामेव तत्त्वमुक्तमित्यवधेयम् । वस्तुतस्तु दण्डमुहूतोद्यात्मकः खण्डकाल एव वर्तमानत्वादि
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy