SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३० दर्पणसहिते वैयाकरणभूषणसारे वाक्योक्तमन्त्रविधिवदित्यादि भूषणे अपश्चितम् । - नन्वाख्यातस्य भावनायामसाधुत्वे ततस्तदोषो न स्यात् , साधुत्वज्ञानस्य शाब्दबोधहेतुत्वादिसत आह-बोध इति ॥ अ. साधुत्वेऽपि साधुत्वभ्रमाद् बोधोऽस्तु नाम, अपभ्रंशवत् । अ. साधुत्वन्तु स्यादेवेति भावः । वस्तुतः साधुत्वज्ञानं न हेतुस्त व्यतिरेकनिर्णयोऽपि न प्रतिबन्धक इति असाधुरनुमानेन इसत्र वक्ष्यामः ॥ २१ ॥ रङ्गोजिभट्टपुत्रेण कौण्डभट्टेन निम्मिते । पूर्णो भूषणसारेऽस्मिन् धात्वाख्यातार्थनिर्णयः ॥१॥ इति वैयाकरणभूषणसारे धात्वाख्यातसामा. ___ न्यार्थयोनिरूपणम् ॥ १ ॥ पूर्वपक्षे, सिद्धान्तः-वाक्यप्रकरणयोर्विरोधे बाध्यबाकभावो, न. त्वत्रास्ति विरोधः। जञ्जभ्यमानपदस्य कत्र्तवाचकतया तादृशपुरुषस्य कतावपि सत्त्वात् तत्सँस्कारमुखेन क्रत्वङ्गतासम्भवात् । एव. श्वाऽर्थवादोपस्थितफलकल्पनौगारवमपि नेति । तथाच बलाबल. चिन्ताया विरोध एवौचित्येन जञ्जभ्यमानवाक्याऽनुवचनस्य वाक्य. प्रकारणाभ्यां क्रतुयुक्तपुरुषधर्मतावत् प्रकृतेऽप्यनृतवदननिषेधस्य श्रुतिप्रकरणाभ्यां क्रतुसम्बन्धपुरुषधर्मतैवोचिता । उक्तञ्च भ. दृपादः स्युपायमांसभक्षादिपुरुषार्थमपि श्रितः। प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयाद् ॥ इति भावः ॥ *प्रपञ्चितमिति * ॥ प्रपश्चस्तु उक्तः । ननु साधुत्वज्ञानं विनाऽ. पिशाब्दबोधोदयेन व्यभिचारात कथमेतत, साधुत्वस्य शक्तत्व. रूपताया निराकरिष्यमाणत्वाच्चात आह-*वस्तुत इति* ॥ *त द्व्यतिरेकनिर्णय इति* ॥ असाधुत्वनिश्चय इत्यर्थः । तन्निश्चयेऽ प्यपभ्रंशाद् बोधदर्शनात् । तथाचाख्याताद्भावनाबोधे बाधकाऽभाव इति भावः ॥२१॥ इति भूषणसारदर्पणे धात्वाख्यातार्थनिरूपणम् ॥ १ ॥
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy