________________
धात्वर्थनिर्णयः
१२९
प्रकरणात् क्रत्वर्थतैव । अस्तु वा क्रतुयुक्तपुरुषधर्म्मः । अनुष्ठाने विशेषाभावात् । “जअभ्यमानोऽनुब्रूयान्मयि दक्षऋतू" इति
:1
भक्षयेत् (१) इत्यत्राप्युक्तररित्या कर्त्तरि नञर्थासम्बन्धेन श्रौतत्वात् । यदि च कर्त्तुरप्राधान्येऽपि कर्त्तृवृत्तिभावनायाः प्राधान्यात्तस्या न. अर्थाऽन्वये तद्द्वाराख्यातार्थकर्त्तुरप्यन्वयान्न तस्य श्रौतपुरुषाऽर्थस्वानुपपत्तिरिति विभाव्यते तदा प्रकृतेऽपि तुल्यमत आह *अस्तु वेति ॥
*अनुष्ठान इति* ॥ नाऽनृतं वदेदिति निषेधस्य क्रतुयुक्तपुरुषधर्मत्वे यजमानस्य प्राधान्यात्प्रधानीभूत कत्रैवानृतवदनं वर्ज्य स्थात् क्रत्वर्थत्वे च कर्त्रनपेक्षत्वेन यज्ञप्रवृत्तेन यज्ञमानेनत्विग्भिश्च वजैनं सिध्यतीति विशेषात् कथमेतदिति वाच्यम् । श्रुतिप्रकरणाभ्यां क्रतुसम्बन्धपुरुषकर्तृकानृतवदनाभाव इति बोधेन क्रतुकर्त्तकेतिबाधे मानाभावः इति ऋतुयुक्तेति वदतोऽभिप्रेतत्वादिति ॥
तत्र दृष्टान्तमाह *मायिदक्षक्रतू इति ॥ दर्शपूर्णमासप्रकरण एवैतन्मन्त्रवचनं श्रूयते - "जअभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू" इति । तत्र किमेतन्मन्त्रवचनं शुद्धपुरुषधर्म, उत ऋतुयुक्तपुरुषसंस्कार• कतया क्रत्वङ्गमिति सन्देहे, वाक्येन तावजञ्जभ्यमानपुरुषधर्मत
यैवाऽयं प्रतीयते । कृत्प्रत्ययस्य शानचः कर्तृवाचकत्वात् । प्रकरणेन तु क्रत्वङ्गतया । प्रकरणं च वाक्यापेक्षया दुर्बलमिति - पुरुषधर्मतैव युक्ता । सत्यां च फलाकाङ्क्षयां "प्राणापानावेवात्मानं धत्ते"
नन्वेवं निषेधस्य क्वाऽपि श्रौत पुरुषार्थता न स्यात् । 'न कलअं इति वाक्यशेषे श्रुतस्य फलस्य रात्रि सत्रन्यायेन ( २ ) कल्पनादिति
(१) कलअं च विषलिप्तशस्त्रहतमृगमांसम् । उक्तं चविषलिप्तेन शस्त्रेण यांमृगः परिहन्यते ।
अभक्ष्यं तस्य तन्मासं तत्कलञ्जमिहेष्यते ॥ इति ।
(२) स्वरूपं च तस्य " प्रतितिष्ठन्ति हवै य एता रात्रीरुपयन्ति" इत्यत्र विध्युद्देशे फलाश्रवणात् फलमन्तरेण च विध्यनुपपत्तेः फलेsari कल्पयितव्ये अर्थवादगतं प्रतिष्ठाख्यं फलमित्याद्यन्यतेोऽव. धेयम् ।
१७