________________
धात्वर्थनिर्णयः। . १२७ मन्त्रेऽप्यस्य पाठ इति क्रमादुपांशुयागानुमन्त्रणे तस्य विनि योगः ॥५॥
समाख्या योगबलम् । यथा, 'हौत्रमौद्रात्रम्' इत्यादि । तत्र हि, होतुरिदं हौत्रमित्यादियोगबलेन होत्रादिसमाख्यातानि कर्माणि होत्रादिभिरनुष्ठेयानीति ॥ ६ ॥
विरोधोदाहरणादि यथा-श्रुतिलिङ्गयोर्विरोधे श्रुतिबलीयसी, लिङ्गं तु दुर्बलम् , अर्थविप्रकर्षात् । यथा, कदाचनस्तरीरसीत्यादि. काया ऋचो विनियोजिका श्रुतिः 'ऐन्द्रया गाईपत्यमुपतिष्ठते' इति इन्द्रप्रकाशनसामाल्लिङ्गादिन्द्रोपस्थापने विनियोगोऽस्या प्रतिमा. ति । अन्यप्रकाशकस्याऽन्यत्र विनियोगाऽयोगात । श्रुत्या गार्हपत्योंपस्थापने स प्रतीयते । गार्हपत्यमिति द्वितीया हि कर्मविभक्तितया कामपि क्रियामपेक्ष्य प्रकृत्यर्थस्य शेषित्वं बोधयति । क्रियाजन्येष्ठ. फलभागित्वस्य तदर्थत्वात् । एवमैन्द्रयेति तृतीयाप्रकृत्यर्थस्य शेष. स्वं क्रियां प्रति साधकतमत्वरूपकरणत्वस्य तदर्थत्वात् । तदनयोर्वि. रोधः।
तत्राऽयं पूर्वपक्षः । सामर्थ्यज्ञानमपेक्ष्य श्रुतिर्विनियोजिका। न घसमर्थ श्रुतिसहस्रमपि विनियोक्तुमलम् । अतो लिङ्गस्य बलवः स्वादिन्द्रोपस्थापनेऽस्या विनियोगः । तदनुरोधितया द्वितीया सप्त. म्यर्थतया व्याख्येया। गार्हपत्यसमीपे इन्द्रोऽनया उपस्थातव्य इत्या थैः पर्यवस्यतीति।
सिद्धान्तस्तु-श्रुतिः स्वरूपसत्सामर्थ्यमपेक्षते, न तु तमानमपि । येन लिङ्गं बलवद्भवेत् । तस्य च पूर्वसत एव विनियोगोऽन्यथानुपपत्त्या ज्ञानं पश्चादुपजायते । लिङ्गं तु विनियोजने श्रुतिमपेक्षते । न हनयेन्द्र उपस्थातव्य इति लिङ्गात् स्वरसतः प्रतीयते, किन्विन्द्र एताहगित्येतावन्मात्रम् । तथाच प्रकारणानानसामर्थ्यादिन्द्रप्रका. शनसमर्थाया ऋचोऽन्यथाऽनुपपत्या लिंगनाऽनयेन्द्र उपस्थातव्य इति श्रुतिः कल्पनाया, यया विनियोगो भवेत् । ततो यावल्लिङ्गं श्रु. तिकल्पनायै प्रकान्तव्यापारं, तावत् प्रत्यक्षश्रुत्या विनियोगः सिद्ध इति प्रकरणे निराकाले कयाऽनुपपत्त्या श्रुतिः कल्पनीया । तस्माच्छु. रुतबलबत्त्वात्तदनुगुणतया सामर्थे नीयमाने इन्द्रपदं परमैश्वर्याश्रयबाचकतया गार्हपत्यतात्पर्य्यकमित्यवधार्य्यत इति।