________________
१२६ दर्पणसहिते वैयाकरणभूषणसारे निपाते समुच्चयदौर्लभ्यादेकेनाऽपरस्य बाधो वक्तव्यः । स च बल. पता दुर्बलस्यति कस्य दौर्बल्यमित्याकालायां परदौर्बल्यप्रतिपादकं, 'श्रुतिलिनवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थ. विप्रकर्षात्' इति सूत्रं प्रणिनाय महर्षिअँमिनिः । श्रुत्यादिनां पठितानां समवाये एकत्रोपनिपाते पारदौर्बल्यामिति । पर एव पारः(१)। उत्तरपठितम् । तथा चैर्षा मध्ये यदपेक्षया यत्परं तद् दुर्बलमित्यर्थः । तत्र हेतुमाह अर्थविप्रकर्षादिति । अर्थस्य विनियोजकस्य लिङ्गादितो विप्रकर्षादुत्तरवर्तित्वात् । लिङ्गादेविलम्बेन पूर्वापेक्षया विनि. योजकत्वाधगतेरिति यावत्। __ तत्र श्रुत्यादीनामुदाहरणानि । निरपेक्षोरवः श्रुति । इतरप्रामा. ण्याऽनधीनप्रामाण्यकत्वं च निरपेक्षत्वम् । यथा, 'वीहीनवहन्ति' इति । मत्र क्रियाजन्यफलभागित्वं कर्मत्वं बोधयन्ती द्वितीयाश्रुतिरितरनिरपेक्षव बीहीणामवघातशेषित्वं प्रतिपादयति ॥१॥ : अर्थविशेषप्रकाशनसामर्थ्य लिगम । यथा, 'बर्हिदेवसदनं दामि' इति । अत्र लवनार्थप्रकाशकतया लवनस्य विनियोगः ॥२॥ __परस्पराकाहायशादेकस्मिन्नर्थे पर्यवसन्नानि पदानि पाक्यम् । यथा 'देवस्थ त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णां हस्ताभ्याम् 'अग्नये स्वा जुष्टं निर्वपामि' इति । भत्र मन्त्रलिनेन निर्वापे प्रयुज्यमा नस्य समवेताऽर्थभागस्यैकवाक्यताबलेन, देवस्य स्वेत्यादिभागस्यापि तत्रैष विनियोगः ॥३॥
लन्धवाक्यभाषानां पदानां कार्यान्तरापेक्षावशाद्वाक्यान्तरेण सम्बन्ध आकापर्यवसनं प्रकरणम् । यथा, 'समिधो यजति' इति । अस्य हि दर्शपूर्णमाले कथम्भावाकालायाः प्रकरणपाठवशाच्छष. स्वम्॥४॥
स्थानं क्रमः । स चानेकस्याम्नातस्य सन्निधिविशेषाम्नानम् । यथा, दधिरसीत्यत्राऽग्नेयोपांश्वग्नीषोमीयथागाः क्रमेण पठिता, एवं मन्त्रमाणेऽपि क्रमेणानुमन्त्रणत्रयं पठितम् । तत्रानेयाग्नीषोमयोईयो. लिनैव विनियोगसिद्धिः। दधिरसित्यत्र तु न लिङ्गादि विनियोजकं, किन्तु यस्मिन् प्रदेशे ब्राह्मण उपांशुयागविधानं तस्मिन् प्रदेशे
(१) “प्रज्ञादिभ्यब" (पा० सू० ५।४।३८) इति सत्रेण स्वार्थे 'अण' प्रत्ययः।