SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२४ दर्पणसहिते वैयाकरणभूषणसारे भेचं-विशेष्यं, भेदक-विशेषणं तयोर्यः सम्बन्धस्तस्य यो भे. दस्तनिवन्धनं साधुत्वम् । अयमर्थः-व्याकरणस्मृतिः शब्दसाधु. स्वपरा तत्रैवावच्छेदकतया कल्प्यमानधर्मस्य शक्तित्वं वदतां मीमांसकानां पुनः शक्तत्वं साधुत्वमियेकमेवेति तद्रीत्या विचारे साधुत्वनिर्णय एस शक्तिनिर्णय उच्यते । अतिरिक्तशक्तिवादेऽप्याख्यातानामसाधुता भावनायां स्पादेव । एवञ्च चतुर्थ्यर्थे तृतीया. प्रयोगवद्धात्वर्थभावनायामाख्यातप्रयागे, याज्ञे कर्मण्यसाधुशब्द. प्रयोगानाऽनृतं वदेदिति निषेधोल्लङ्घनप्रयुक्तं प्रायश्चित्तं दर्शनान्तरीयव्युत्पत्तिमतां स्यादेवेति । प्रतिपादिता बोधकतारूपा शक्तिराख्यातेऽप्यबाधितैव । सतो भाषनाबोधस्य जायमानत्वादिस्वर्थः। *साधुत्वपरेति* ॥ तथाच हरि: साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः॥ इति ॥ तत्र-साधुशब्दे । * अवच्छेदकतया* | बोधजनकताऽवच्छेदकतयेत्यर्थ । *अतिरिक्तशक्तिवादेऽपीति* । साधुत्वं न शक्तत्वमसा. धोरपि बोधकत्वमिति वक्ष्यमाणसिद्धान्तिमतेऽपीत्यर्थः ॥ ____ असाधुता स्यादेवेति ॥ आख्याताच्छक्तिभ्रमेण भावनाबांधेऽपि तत्र तस्याऽसाधुता स्यादेवेत्यर्थः। तथाच भाष्यकृता, "सिद्ध शब्दा. थसम्बन्धे" (म० भा० आ० १) इत्यत्र “समानायामर्थावगती साधुभिर्भाषितव्यं नाऽसाधुभिः इति गम्या गम्येतिवनियमः क्रियते" इति पस्पशायामुक्तम् । एवं यारशविशेषणान्वितयारशविशेष्यबोधे याह. शानुपूज्योः सुप्रकृदाधन्यतमसम्मतत्वं तादृशबोधे तादृशानुपूर्वीक: शदः साधुर्नान्यत्र । अत एवास्वशब्दोश्वे न साधुः, किन्तु निः स्थे । अश्वशब्दो निस्वे न साधुः, किन्तु तुरग इति सङ्गच्छते । न. न्वस्तु साधुतेत्यत आह *एवञ्चेति* । याशे कर्मणीत्यनेन, "नाऽनृतं पदेनाऽपभ्रंशितं धा" इत्याविश्रुतिः क्रतुप्रकरणे पाठादितरत्र तत्प्र. योगे प्रत्यवायाऽभावं सूचयति । *स्यादेवेति* । भावनाबोधकत्वेना. ख्यातस्य सूत्रकारादिभिरमुशिष्टत्वात् कर्नुबोधकत्वेनैव तदनुशास. मादिति भावः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy