________________
दर्पणसहिते वैयाकरणभूषणसारे
अतिप्रसङ्गमाशा समाधते - कृत्वोऽर्थाः क्त्वातुमुन्वत्स्युरिति चेत् सन्ति हि क्वचित् ॥ अतिप्रसङ्गो नोहान्योऽभिधानस्य समाश्रयात् ॥ २० ॥
भोक्तुं पाकः, भुक्त्वा पाक इत्यादौ, “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्,” ( पा० सू० ३ | ३ | १० ॥ ) "समानकर्तृकयोः पूर्वकाले” ( पा० सू० ३ । ४ । २१ ) इति क्रियावाचकोपपदे क्रिपयोः पूर्वोत्तरकाले विधीयमानाऽपि तुमुन्नादयो गुणभूतां तामादाय यथा जायन्ते । तथा कृत्वोऽर्था अपि स्युः । एकः पाक इत्यत्र, "एकस्य सकृच्च" ( पा० सू० ५ । ४ । १९ ) द्वौ पाक, त्रपः चत्वार इत्यत्र “द्वित्रिचतुर्भ्यः मुच" ( पा० सू० ५ । ४ । १७ ) । पश्चेत्पत्र कृत्वसुच् स्यात् । तथाच सकृत् पाकः द्विनिश्वतुः पाका इत्याद्यापत्तिरिति चेदिष्टापतिः । " द्विर्वचनम्" इत्यादिदर्शनात् । अतिप्रसङ्गस्त्वनभिघानानेत्याह- अतीति ॥ " न हि वचिरन्तिपरः प्रयुज्यते" इसायभियुक्तोक्तरीत्या समाधेयमिति भावः (१) ।
१२२
किञ्च, साध्यत्वेन क्रिया तत्रेति हरिपद्यव्याख्यावसरे, एकस्यैव सम्बन्धिभेदादाचार्यत्वमातुलत्वादिवदेकस्या एव क्रियायाः प्रकृतिप्रत्ययरूपवाचकसम्बन्धिभेदादुपस्थितिरिति स्वोक्तिविरोधः क्रियाद्वयाबोधाङ्गीकार इति ॥
*अतिप्रसङ्गमिति* | गुणभूतक्रियामादाय कृत्वोर्थापत्तिरूपमि. त्यर्थः ॥ तुमुन्नादीत्यादिना, कृष्णं दर्शको यातीत्यत्र ण्डुलः सङ्ग्रहः । क्रिययोरित्यस्योद्देश्यत्वरूपे तादर्थ्ये इति शेषः ॥ विधियमाना इत्यस्य
(१) तादृशप्रयोगात् क्रियाजन्मगणनाऽप्रतीतेरित्यर्थः । भाष्यकारेणापि "द्वपाकावित्यत्र कस्मान्न भवति । नैतत् क्रियागणनमभिमु· श्री प्रवृत्तिः" इत्यादिमा स्पष्टीकृतम् ।