SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । १२१ इत्यादाविवान्वयाभ्युपगमात् । एवं भोक्तुं पाक:, (१) भुक्खा पाक इत्यत्रापि द्रष्टव्यम् ॥ १९ ॥ किं साधकं गमनरूपसाध्यमिति साधनाकाङ्गानिवृत्तये ग्रामादिकasarissaश्यकत्वानं दृष्टान्तासङ्गतिरिति भाषः । आदिना, “शरैः शातितपत्रः” इत्यादेः सङ्ग्रहः । अवतरणिकास्थादिपदप्रायं स्पष्टयति * एवं भोक्तुमिति । अत्राऽप्यादिपदग्राह्यम्। *भुक्त्वा पाक इति । घञर्थभावगुणभूतायां पच्यर्थक्रियायां तुमुनन्तार्थक्रिया न्वय इति बोध्यमित्यर्थः । अत्र नव्याः - तुमुन विधायके, क्रियार्थायां क्रियायामित्युत्या प्रस्यासत्या क्रिययेोरेकजातीयत्वलाभेन स्ववाचकप्रकृ तिकप्रत्ययार्थे प्रत्यगुणीभूतायाः साध्यमात्रस्वभाषाया एव, क्रियायामित्यनेन ग्रहणाद्भोक्तुं गतं, भोक्तुं पाक इत्यसाध्वेव । ध्वनितं चेदमुपपदमतिङिति सूत्रभाष्ये । यत्र तु क्रियामात्रार्थकस्य ग्रहणं तत्रक्रियामात्र विशेषणादपीति गतपाकादियोगेऽपि सुक्त्वादीत्याहुः । तेषामयमाशयः । घञाद्यन्तस्थले प्रकृतिप्रत्ययाभ्यां विशेष्यवि शेषणभावापन्नसत्त्वस्वभावक्रियाद्वयमुपस्थाप्यते । तत्र प्रत्ययार्थक्रियायाः प्राधान्यम् । एवञ्च धातूपस्थाप्य क्रियायाः साध्यमात्रस्वभावत्वेऽपि तस्या घञर्थ प्रति गुणत्वान्न तत्र तुमुनादीति । तत्रेदं चिन्त्यम् । भाषाऽनधिकारीयधात्वर्थाऽनुवादकप्रत्ययान्तयोगे तुमुनो दुर्वारत्वात् । किञ्च । सुज्विधायके ऽप्युक्तविशेषणवि शिष्टायास्तस्या ग्रहणमावश्यकम् । तत्तविशेषणीभूतक्रियायाः साध्यमात्रस्वभावत्वेन तज्जन्मगणने द्वौ पाकावित्यत्र सुजापत्तेरश. क्यवारणत्वात् । नच तत्रेष्टापत्तिः । क्रियापदोपादानवैयर्थ्यादभ्यावृत्तिपदसामर्थ्येनैव क्रियाया लाभादिति वक्ष्यमाणत्वात् । (१) भोक्तुं पाक इति । "तुमुन्ण्वुलौ क्रियायां क्रियार्थीयाम्" ( पा० सू० ३ । ३ । १० ) इति सूत्रेण विहितस्य तुमुनः क्रियायोगे एव विधानात् असत्वभूतधातुपस्थापितक्रियायामन्वयात् साधुत्वं बोध्यमित्यर्थः । " १६
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy