SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२० दर्पणसहिते वैयाकरणभूषणसारे त्यसापेक्षध्वेकदेशेऽपि, 'देवदत्तस्य गुरुकुलं,' 'चैत्रस्य नत्पा' मान्यपरत्वेन ब्याख्यास्यमानत्वादिति भावः । *कथमिति* । गत इत्यादी कृवृत्तिसत्त्वेन गमनकर्तृरूपगतपदार्थैकदेशभावनायां का मन्वियासम्भवाद् दृष्टान्तासिद्धिरिति भावः । नित्यसापेक्षस्थले हि पक्षद्वयं । चैत्रस्य गुरुकुलमित्यत्र विशेषणस्य चैत्रादेगुर्वादिद्वार. कसम्बन्धेन कुलादिरूपविशेष्य एवान्वय इति तत्रैका पक्षः। स चोतो हरिणा। समुदायेन सम्बन्धो येषां गुरुकुलादिना ॥ संस्पृश्यावयवास्ते तु युज्यन्ते तद्वता सह ॥ इति । उक्तस्थले समुदायनिरूपितसम्बन्धषष्ठी अवयवद्वारकश्च समु. दायन सम्बन्ध इति सामर्थ्याद् अवयवमपीति विशेषणं स्पृशती. ति तदर्थः । अपरस्तु गुर्वादिनिरूपितसम्बन्धे एव, देवदत्तस्येति ष. ष्ठी वत्रैव तदन्धयः । उक्तश्च सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते। पाक्यवत् सा व्यपेक्षा हि वृत्तावपि न हीयते ॥ इति ॥ नित्यमपि साऽपेक्षपदार्थाऽन्वयि, हि-यतो देवदत्तस्य गुरोः, कुल. मित्यादिव्यस्ते या व्यपेक्षा सा समासेऽपि न हीयत इति कारिकार्थः । पदार्थः पदार्थेनाऽन्धेतीति व्युत्पत्तिस्तु नित्यसापेक्षाऽति रिक्तविषये. ति तद्भावः। तत्रान्तिमपक्षमभिप्रेत्य समाधत्ते *नित्यसापक्षेविति। ' तथाच गुरुत्वादेरन्यनिरूप्यत्वेन तदुपस्थिती नियमेन जायमा. नाया निरूपकाकाक्षाया निवृत्तये देवदत्ताद्यन्वयवत्, (१)प्रकृतेऽपि, (१)वस्ततस्तु समासे तद्धटक पूर्वपदे वा प्राचीनतार्किकमते शक्तलक्षणाश्च अभावेन गुरुन पदार्थैकदेश इति 'देवदत्तस्य गुरुकुलम्' एतद्विषयकदर्पणीयविवेचनम् 'चैत्रस्य नत्पा' इत्यादि उदाहरणीयविवेचनरीतिदर्शकम् । अत एव मूले 'चैत्रस्य नप्ता' इति दृष्टान्ता. न्तरप्रदर्शनम् । . तथाच 'चैत्रस्य नत्पा' इत्यत्र स्वविशिष्टशरीरत्वम् स्वनप्त. स्वम् । वै० स्वजन्यशरीरजन्यत्वम् । तदेकदेशे जन्यत्वे चैत्रनि. रूपितत्वादिरूपषष्ठयन्तार्थान्वय इत्याद्यन्यत्रविस्तरः ।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy