SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। ११९ गुणभृता इन्यादिभिरित्यर्थः ।। नच वृत्तिपात्रे समुदायशक्तर्वक्ष्यमाणत्वात् तत्रान्तर्गता भावना पदार्थंकदेश इति कथं तत्रान्वय इति वाच्यम् । नि ति विशेष्यतया धातुजन्यभावनोपस्थितहेतुतायाः पूर्वमुक्तत्वादि. ति भावः॥ *कृतपूर्वी कटमिति * । नन्वत्र कर्मणि ते कटशब्दादनभिहि. ताधिकारीयद्वितीयाऽनुपपत्तिः। भावे कस्तुसकर्मकाद्गगनकुसुमाय. मान एव । तयोरेवेति (१)नियमात् । अत एव, नपुंसके भावेऽपि न सः । तथाच कथमुक्तदान्तिकवाक्योपपत्तिरिति चेदत्राहुः कर्म. णो विशेषरूपेण प्रागविवक्षया अकर्मकत्वाद्भावे प्रत्यये तदन्तस्यपू. र्षशब्देन समासे सपूर्वाञ्चेतीनिः, पश्चात्तु कर्मणो विशेषरूपस्य विव. क्षया तत्र द्वितीयेति । इदं च, कर्तृकर्मणोः कृति (पा० सू०२।३।६५) इति भाष्ये स्पष्टम् । ईदृशविवक्षाऽविवक्षे च तद्भाष्यप्रामाण्यात् कृ. तपूर्वीत्यादिविषये एव, नाऽन्यविषय इति बोध्यम् ॥ ___ *इन्यादिभिरिति । तदर्थकादिभिरित्यर्थः। वस्तुतस्तु दा. टॉन्तिके स्ववाचकप्रकृतिकप्रत्ययार्थेऽन्यस्मिन् वा गुणीभूतकटादिकर्मभावादिभिरिति व्याख्येयम् । नातः, कृतपूर्वाति प्रयोगघटककस्य धात्वर्थाऽनुवादकत्वेऽपि क्षतिः। पूर्वकालिकक्रियाकर्तेति ततोबोधेन. तादृशक्रियाया इन्यर्थकर्तरि गुणत्वात् । नाप्ययं भावोऽधिकारीय. स्वातन्त्र्येणाऽप्रयोगात् । अत एव भोक्तुं गतमेतेनेत्यादिप्रयोगोपप. त्तिः । भावाऽनधिकारीयभावविहितप्रत्ययस्य धात्वर्थानुवादकत्वाप्रकृत्यर्थक्रियाया अगुणत्वात् । एवमव्ययकृतो भाव इत्युक्ते पाक इत्यादिप्रयोगस्थघार्थातुमुनाद्यर्थे वैलक्षण्यानुभवात् तुमुनादीना. मपि साध्यमात्रस्वभावभावार्थकत्वमित्यन्यत्र विस्तरः॥ ___ *वृत्तिमात्रे इति* । मात्रपदं कृत्स्नाऽर्थकम् । *वक्ष्यमाणत्वादि. ति* । 'समासे खलु भिन्नैव' इत्यादिः । तत्र समासपदस्य वृत्तिसा. (१) "तयोरेव कृत्यक्तखलाः ” (पा० सू० ३।४।७० ) इति सूत्रेणेति शेषः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy