SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११८ दर्पणसहिते वैयाकरणभूषणसारे तामित्यर्थः । अनुशासनानुरोधतौल्ये अर्द्धजरतीयमयुक्तमिति भावः ॥१८॥ एवं कर्नादौ विहितानामिन्यादीनां क्रिययैवान्वय इत्याह अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ॥ क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता ॥ १९॥ न(१)विविच्य ग्रहो ग्रहणं यस्याः सा अविग्रहा गुणीभूतेति यावत् । यथा च ग्रामं गत इसत्र क्तप्रत्ययाऽर्थगुणीभूताऽपि क्रिया प्रामादिकमभिः सम्बध्यते तथा कृतपूर्वी कटामित्यत्रापि रीप्सित" ( पा० सू०१।४।३६ ) इति विहितचतुर्थ्याः स्पृहयत्युपातार्थ एव स्वार्थाऽन्वयबोधकत्वं, न पदान्तरोपात्ते, अध्याहृते वा तदर्थेऽनुशासनविरोधादिति स्वसिद्धान्तस्त्यज्यतामित्यर्थः ॥ ___ *अर्द्धजरतीयमिति । इदमथै, गहादित्वाच्छः (२)। कचिदनुशासनाऽनुरोधः, क्वचिन्नेत्यर्द्धजरतीसदृशमित्यर्थः । तथाच स्वीयसि. द्धान्तप्रच्युतिरूपबाधकभियात्राऽपि पर्वतो वह्निमान भवितुमर्हती. त्येव प्रतिज्ञाऽङ्गीकरणीया, न तु क्रियावाचकपदशून्या सेति नोक्तनि. यमे व्यभिचारः । भूतले न घट इत्यादौ यद् वक्तव्यं तत्तूक्तम् । व. क्ष्यते वाऽधिकमिति भावः ॥१८॥ :: कृतपूर्वीत्यत्र भावविहितक्तेन सिद्धाऽवस्थापनो भाव उच्यते । तद्विशेषणं च प्रकृत्यर्थक्रियेत्याशंयन मूलमवतारयति *एवमि. त्यादिना* | कर्नादावित्यादिना भावपरिग्रहः ॥ इत्यादीनामित्यादि. ना क्त्वातुमुनादीनाम् । *सम्बध्यते इति । कारकप्रकारकबोधं प्र. (१) विविच्य-पृथग्भूय इतराविशेषणत्वेनेति यावत् । तदेवा. ह 'गुणीभूतति'। - (२) वस्तुतस्तु जरत्या अर्धमिवार्धजरती तत्सदृशमर्धजरतीयम् इत्यर्थे "समासाच्च तद्विषयात्" (पा० सू०५।३। १०६) इति सूत्रेण छः प्रत्ययोयोध्यः।
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy