________________
धात्वर्थनिर्णयः।
११७ 'तहातिरेकेण साधुत्वलाभ इत्याहुः॥ १७ ॥ स्वयमुपपत्तिमाहयदि पक्षेऽपि वत्यर्थः कारकञ्च नादिषु ॥ अन्वेति त्यज्यतां तर्हि चतुर्थ्याः स्पृहिकल्पना ॥१८॥
पर्वतो वह्निमान् धूमाद् महानसबत्, भूतले न घटः । भू. तले घट इत्यादिपदात् । एवमादिप्वनुशासनविरोधेऽपि यदि साधुत्वमन्वयश्चाभ्युपेयते तर्हि चतुर्थाः स्पृहिकल्पनाऽपि यज्य.
न्यायेन तत्राऽस्ति जानात्यादिक्रियामन्तरेणाऽन्वयबोधनिराकात त्वयारदर्शनादित्यर्थः । तत्र, चैत्रः सुन्दर इति क्रियासाकाङ्क्षवाक्य. स्याऽसाधुतापत्तिः । फलांशान्वयलाभेनैवोपपत्तौ भावनावाचक. त्वालाभश्चेत्यस्वरस आहुरित्यनेन सूच्यते ॥ १७॥ __*उपपत्तिमिति* ॥ उक्ताऽष्टकस्य भावनायामन्वये साधकोपमासरूपां तामुक्कानन्वये बाधकोपमासरूपां तामाहेत्यर्थः। ननु संबो. धनान्तादीनां क्रियान्वय एव साधुत्वे, पर्वतो वह्निमान् महानसवा दित्यादी वत्यर्थसादृश्यस्य कथं पर्वतेऽन्वयः ? कथं वा भूतलं न घट इत्यत्र सप्तम्यर्थभूतलाधेयत्वस्य तथाऽभावे इत्यत आह मुले *यदि पक्षेऽपीति* ॥ पक्षे प्रतिज्ञावाक्यजन्यबोधविशेष्ये सन्दि. ग्धसाध्यके धर्मिणि पर्वतादाविति यावत् । कारकमधिकरणादिनमादिषु । नअर्थाऽभावे इतरनामार्थे चेत्यर्थः । तमेव विशदयति सारे *पर्वतो वहिमानित्यादिना ॥ *आदिपदादिति ॥ नादिग्वित्यादि. पदादित्यर्थः । तदेव विवृणीति *एवमादिग्विति ॥ भूतले घट इत्या. दावित्यर्थः॥
*अन्वयश्चेति । महानससदृशः पर्वतो, भूतलवृत्तित्वाऽभाव. वान् घटो, भूतलवृत्तिघंटाऽभाव इति वा बोधश्चेत्यर्थः । तेन तुल्य. मित्यनुशासनेन क्रियागतसादृश्यबोधन एव वते, कारक इत्यधिकृ. स्य, सप्तम्यधिकरणेचेत्यनुशासनेन क्रियान्वय एव सप्तम्याश्च सा. धुत्वबोधनादुक्तं यदीति *। * चतुर्थ्या इति* । पुष्पेभ्य इत्यत्र, "स्पृहे.