________________
दर्पणसहिते वैयाकरणभूषणसारे स्यात्" (जै० सू० ३ । १ । २२) इति न्यायेन सर्वे सेवफा राजानमिव भावनामेव परस्परनिरपेक्षाण्यन्वियन्ति । 'न हि भिक्षुको भिक्षुकान्तरं याचितुमर्हति सत्यन्यास्मिन्नाभिक्षुके' इति न्यायेनाऽपि फलं त्यक्त्वा भावनायामेवाऽन्वियन्तीति मीमांसका अपि मन्वते । एवञ्च विशेष्यतया कारकादिप्रकारकबोधं प्रति धातुजन्यभावनोपस्थितिहेतुरिति कार्यकारणभाव. स्य क्लप्सत्वात् । यत्रापि पक्ता पाचक इत्यादो भावना गुणभूता तबाऽपि क्लुप्तकार्यकारणभावाऽनुरोधात् तस्यामेवाऽन्य. य इत्यवसीयते इसादि भूषणे अपश्चिनम् । केचित्तु, भूतले घटा, देवदत्तो घटमित्यादावन्वयबोधाकाङ्क्षानिवृत्योरदर्शनान्न
ष्टत्वादिति(१)भावः। *गुणानामिति । विशेषणानां परार्थत्वादन्योपकारकत्वादत एव समत्वात्समानधर्मत्वात्तेषां परस्परं सम्बन्धो न भवेदितिन्यायार्थः । तथाच यथा फलस्योपकारकत्वाद् विशेष्यभा. बनायामन्वयस्तथा कारकाणामपि साक्षात्परम्परया वा तत्रैवान्वयो. ऽन्यथा कारकत्वस्यैवाऽनुपपत्तेन तु फले निराकाङ्कत्वादिति भावः । तदनुसारिलौकिकन्यायमप्युपन्यस्यति न हि भिक्षुक इत्यादि ।
मीमांसका अपीति* । उक्तन्यायेन कारकप्रकारकवोधं प्रत्याख्यातजन्यभावनोपस्थितेहेतुतायास्तैः क्लप्तत्वादिति भावः । कारकादीत्यादिना लडाधर्थकालपरिग्रहः ॥ *गुणभूतेति । तृजाद्यर्थक
रि विशेषणीभूतेत्यर्थः । एतेन पूर्वोक्तन्यायस्य तत्राऽसम्भवो दशितः। तस्यामेवेति। धात्वर्थभावनायामेवेत्यर्थः। *प्रपञ्चितमि*। फलांशे तु न कारकान्वितस्य कारकत्वाऽसम्भवेन यागरूपफलस्य करणतया क्रियायामनन्वयाऽऽपत्तेरिति हि तत्रोक्तम् ।
*अदर्शनादिति । सर्व-हि वाक्यं क्रियया परिसमाप्यते इति (१) 'देवदत्तस्तण्डुलं पचति' इत्यादौ कारकाणि भावनांप्रति वि. शेषणतापन्नानीत्यर्थः। कृदन्ते कारकाणां भावनां प्रति विशेष्यत्वाव कचिदितिपदापात्तम् ।