________________
धात्वर्थनिर्णयः।
११५ फलांशे काचित्का, क्रियत इति यौगिकः प्रयोगः । तथाच संज्ञाशब्दस्यानेपक्ष्य प्रवृत्तत्वेन बलवत्त्वाद्भावनान्वय एव साधुता लभ्यते । अत एव संज्ञाशब्दमाबल्याद्, रथन्तरमुत्तरा. ग्रन्थपठितऋक्ष्वेव गेयं, न तु वेदे तदुत्तरपठ्यमानऋविति नवमे निर्णीतम् ।
किञ्च फलांशोऽपि भावनायां विशेषणं, कारकाण्यपि क. चित्तथाभूतानीति । “गुणानाच परार्थत्वादसम्बन्धः समत्वात्
. *साङ्केतिकीति* । सङ्केताभिव्यङ्गया रूढिरित्यर्थः । तत्र हेतुः। *काचित्क इति । तत्र नियामकमाह *यौगिक इति* | क्रियते व्यापारण निष्पाद्यत इति व्युत्पत्तेरिति भावः । *अनपेक्ष्यति । प्र. कृतिप्रत्ययशक्तिमननुसन्धायेत्यर्थः। *अत एवेति । संज्ञाशब्दस्याऽनपेक्ष्य प्रवृत्तिकत्वेन बलवत्त्वादेवेत्यर्थः॥
*नवमे इति* । मीमांसानवमाऽध्याये इत्यर्थः। तथाहि, रथन्तरं हि "यद्योन्यां तदुत्तरयोर्गायति" इति श्रूयते । तत्र रथन्तरयोनेः परतो बृहद्योनेः पठितत्त्वाद्रथन्तरं तस्यां गेयम् ? उतोत्तराग्रन्थे, "न त्वा वामन्यते" इत्यस्य पठितत्वात् तत्र गेयमिति संशयेऽविशे. पादुभयत्र गेयमिति पूर्वपक्षे उत्तराग्रन्थे उत्तराशब्दस्य संज्ञारूपेण प्र. सिद्धिवृहद्योनौ तु तस्याः पूर्वग्रन्थाऽपेक्षिकोत्तरस्वबलाद्यौगिकी, संक्षा. शब्दस्याऽनपेक्षा प्रवृत्तिकत्वेनबलवत्त्वादुत्तराशब्दसङ्केलित-"नत्वावामन्यत" इत्यावृक्ष्वेव तद्यमिति नवमे निर्णीतम् । तद्वत्तत्रापति भावः। ननु भावनायां क्रियापदस्य साङ्केतिकी शक्तिः, फले तु यौगिका प्रयोग इत्यत्रवन दृढतरं मान, (१)येनोक्ताधिकरणावतारः सम्भाव्येत । प्रायेण तस्य तु यौगिकत्वेनाऽप्युपपत्तेरत आह *किञ्चति ॥
*तथाभूतानीति* । विशेषणानत्यिर्थः। कर्नाऽऽख्यातस्थले ह.
(१) फलस्यापि क्रियाशब्देन व्यवहारस्य 'कर्मवकर्मणा तुल्यक्रियः' इति सूत्रे दृष्टत्वात् तस्यापि सांकेतिकत्वं स्यात् इत्यभिप्रा. येण दृढतरं न मानमित्युक्तम् ।