________________
दर्पणसहिते वैयाकरणभूषणसारे ऽपि चकारायस्य च भावेनेत्यायातीत्यर्थः ॥ साधुत्वमिति ।। तत्स्वरूपं तु वक्ष्यते ॥
क्रिययैवेति ॥ अयं भावः-भूवादिमूत्रादिषु प्रायशः क्रि. याशब्देन भावनाव्यपदेशात् तत्र तस्य साङ्केतिकी शक्तिः ।
चकपदात सप्तमी विधीयते। भावलक्षणमित्युपादानाज्यापकत्वरूपसप्तम्यर्थस्य क्रियायामेवाऽन्वयः । अत एव, गेषु दुह्यमानासुगत इत्यादौ दोहनक्रियाऽऽधारकालेन गमनपरिच्छेदकत्वं बुध्यते(१)इति ।
*आयातीति* । समस्तसूत्रमेव तत्रानुवर्तत इत्यर्थः । तथाचाऽ नादरे गम्यमाने यनिष्ठक्रियायाः क्रियान्तरज्ञापकत्वं तद्वाचकतेति तदर्थात् तद्विहितयोरपि तयोः क्रियायोग एव साधुत्वं लभ्यत इत्यर्थः। ननूक्तानां क्रियान्वयाभावेऽपि शक्तत्वरूपसाधुत्वं सुलभमत आह तत्स्वरूपमिति | साधुत्वस्वरूपमित्यर्थः । *वक्ष्यत इति । साधुत्वनिर्वचनाऽवसर इति शेषः। .. साधुत्वं न शक्तत्वमपशब्दादपि बोधोदयात्, किन्तु व्याकरणै. कव्यञ्जिका पुण्यजनकतावच्छेदकजातिरिति(२)वक्ष्यत इत्यर्थः । प्रकृते च व्याकरणेन क्रियान्वितेष्वेव तद व्यज्यत इति तदन्यस्याऽसाधुतै. वेतिभावः।
ननु, क्रिययैवाऽवधार्यताम्' इति मूलेन क्रियाऽन्वय एवोक्तानां साधुत्वं लभ्यते इति सत्यमेव तथापि भाष्ये क्रियापदस्य फले. ऽपि प्रयोगात्साक्षात्परम्परया वा क्रियाफलान्वयनाऽपि तेषां साधु. त्वोपपत्ती नोक्तरीतिर्धातोर्यापारवाचकत्वसाधिकेत्याशङ्कयाऽऽशयं प्रकाशयति-*अयम्भाव इति*। *प्रायशः क्रियाशब्देनेति । तथा. च प्रयोगबाहुल्यं रूढिसद्भावे प्रयोजकमिति भावः ॥
(१) अयमभिप्रायः । गोषु दुह्यमानास्वित्यत्र गोपदोत्तरसप्तम्या शाप्यभापकभावात्मकः संबन्धोऽर्थः । दुह्यमानानां गवां ज्ञापकत्वं शाप्यत्वञ्च गमनक्रियायां शब्दतः प्रतीयते । एवमन्यत्रापि द्रष्टव्यम् ।
(२) असाधुरनुमानन वाचकः कैश्चिदिष्यते । इत्यादि श्लोकेने. ति शेषः।