________________
दर्पणसहिते वैयाकरणभूषणसारे
अत एव विद्यमानेऽपि घटे तादृशप्रयोगः । तथाच, घटो नास्तीत्यत्राप्यस्तित्वाभाव एव बोध्यते । न हि, घंटो न जायते, नास्तीत्यनयोर्धात्वर्थभेदान्तरेणास्ति विशेषः । तथाच, भूतले न घट इत्यत्राप्यस्तीत्यध्याहार्थ्यम् । प्रकारतासम्बन्धेन नञर्थ
११२
तस्य प्रतियोगितया युष्मदाद्यर्थाऽन्वयित्वे तु युष्मदादौ ल. कारवाच्यकर्तृवाचकत्वरूप सामानाधिकरण्याभावान्मध्यमपुरुषाद्य् नुपपत्तिर्युष्मदर्थप्रतियोगि काभावस्यैकत्वेन द्विवचनाद्यनुपपत्तिश्चेति सुचयितुं, न त्वं पचसि, न युवां पचथ इत्युक्तम् । एवं चैत्रप्रतियोगिकाभावकर्तृत्वोपगमे पाके तत्कर्तृकत्वबाधा, पाकानुकूलकृत्यभावार्थत्वे त्वन्मते पुरुषव्यवस्थापकाभावेन कदाचिन्मध्यमोत्तमयोरापत्तिश्चेति बोधयितुं, चैत्रो न पचतीत्युक्तम् । अत एवेति । नत्रः क्रियाप्रतियोगिकाभावबोधकत्वादेवेत्यर्थः ॥
* तादृशप्रयोग इति । घटो न जायते इत्याकारक इत्यर्थः । घटस्य, विद्यमानतादशायां घटकर्तृकोत्पत्त्यनुकूलव्यापाराभावाडबाधावन्मते तु घटाभाव उत्पत्यनुकूलव्यापार कर्तृत्वाऽभावादुक्तप्रयोगानुपपत्तिरिति भावः । उक्तरीत्या नञः क्रियाप्रतियोगिकाऽभावबोधकवधान्ये, घटो नास्तीत्यत्र घटाभावकर्तृकत्वस्य धात्वर्थे अबाधेऽपि तद्बोधमनादृस्य घटास्तित्वाभावबोधाभ्युपगम उचितः, वक्ष्यमाणकार्य्यकारणभावबलादित्याह * तथाच घट इति । तदेवो. पपादयति न हीत्यादिना । (१)
ननु यत्र न क्रियावाचकसमभिव्याहारो भूतले न-घट इत्यादी तत्र न कथं क्रियाप्रतियोगि काऽभावो बोधनीयोऽत आह तथा चेति* | *अध्याहार्य्यमिति । 'अस्तिर्भवन्तीपर' इत्यादिभाष्ये क्रियान्तराभावेऽप्यस्तिक्रियामादाय वाक्यपरिपूर्त्तिबोधनादिति भावः ।
(१) ननुं पूर्वोक्तस्थलेऽनुपपत्त्या क्रियानिषेधस्वीकारेऽपि घटोनास्तीत्यादिषु घटाद्यभावप्रतीतिरेव स्वीक्रियतां बाधकाभावात् तथा च तत्रैवोक्तनियमभङ्ग इत्याशङ्क्याह- तदेवोपपादयति न. हीत्यादिनेति ।