________________
.:. धात्वर्थनिर्णयः। - प्रथमो वतिः ॥ "तेन तुल्य क्रिया चेदतिः" (पा० सू०५। १। १५) इति विहितः । तत्र यत्तुल्यं सा क्रिया. चेदित्युक्तत्वात् ॥ धातुसम्बन्धाधिकारे ॥ "धातुसम्बन्धे प्रत्ययाः" (पा० सू० ३ । ४ । १) इत्यधिकृत्य तेषां विधानात । ___ असमस्तनञ् ॥ समासायोग्यः प्रसज्ज्यप्रतिषेधीयो नजिसर्थः । उत्तरपदार्थान्धयेऽपि समासविकल्पेन पक्षेऽसमस्तत्वाद् यथाश्रुतग्रहणाऽयोगाद । __नचासमस्तनमः क्रियान्वये मानाभावः । न त्वं पचास, न युवा पचथः, चैत्रो न पचति, घटो न जायते इसादौ कि. याया एव निषेधप्रपीतेः।
कारकशब्दस्यापादानादिपरता सङ्गच्छते । कारक इति तु प्रथमार्थ सप्तमीत्याहुः ॥
*इत्युक्तत्वादिति* ॥ तथाच ब्राह्मणवदिति वृत्तौ ब्राह्मणशब्द. स्य ब्राह्मणकर्तृकाध्ययनपरतया तत्तौल्यवत्यर्थसमभिव्याहृताऽध्य. यनक्रियायामब्राह्मणकर्तृकाध्ययनतुल्यमेककर्तृकमध्ययनमिति ब्रा. ह्मणवदधीत इत्यतो बोधः । तत्र तस्येवेति विहितवतेद्रव्यगुणान्वयित्वा(१)-मूले प्रथम इत्युक्तम्॥ *विधानादिति*॥ तत्र धातुशब्दस्य धात्वर्थपरताया, वसन् ददशेत्यत्राऽतीतवासकर्तृकर्तृकं दर्शनमित्या. दिरीत्या बोधादिति भावः ॥
*प्रसज्येति * ॥ प्रतिषेधशब्दः कर्मघमन्तो बाहुलकात् । प्रस. ज्ज्याऽऽपाद्य प्रतिषेधः प्रतियोगी यस्य तारशाऽभावोऽर्थों यस्येति व्युत्पत्त्याऽभावार्थक इत्यर्थः। *यथाश्रुतेति ॥न ब्राह्मणमानयेत्यादी नअर्थारोपस्य ब्राह्यणादावन्वयेन व्यभिचारापत्तेरिति भावः। *निषेधप्रतीतेरिति* ॥ अत्यन्ताऽभावप्रतीतेरित्यर्थः। तथाच तादृशप्र. तीतिरेवोकनार्थस्य क्रियान्वयित्वे मानमिति भावः। . (१) द्रव्यगुणान्वयित्वादिति। 'मथुरावत् पाटलिपुत्र प्राकार' इत्यत्र वत्यर्थस्य प्राकारेऽन्वयेन द्रव्यऽन्वयस्य दृष्टत्वात् ।