SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ११० दर्पणसहिते वैयाकरणभूषणसारे परं न । वस्तुत, एकतिविशेष्यक वाक्यमिति तदभिप्रायस्य हेलाराजीयादौ वैयाकरणभूषणेऽस्माभिश्च प्रतिपादितत्वाच मतेऽपि भवत्येवेत्यवधेयम् ॥ कृत्वोऽर्थाः ॥ “क्रियाभ्यावृत्तिगणने कृत्वसुच्" ( पा० सू० ५ । ४ । १७ ) इति क्रियायोगे तत्साधुत्वोक्तेः । क्रियाया अभ्यावृत्तिः - पुनः पुनर्जन्म, तस्मिन् द्योत्ये इति तदर्थात् । कारकम् || कारके इत्यधिकृत्य तेषां व्युत्पादनात् । कारकशब्दो हि क्रियापरः । करोति कर्तृकम्मदिव्यपदेशानिति व्युत्पत्तेः । तथाचाग्रिमेष्वपादानादिसंज्ञाविधिषु क्रियाऽर्थककारकशब्दानुवृत्त्या क्रियान्वयिनामेव संज्ञेति भाष्ये स्पष्टम् । मिति ॥ यथाश्रुतसूत्रमनुरुच्याह *वस्तुतस्त्विति* ॥ *हेलाराजी य इति ॥ बहुष्वपि तिङन्तेषु साकालेष्वेकवाक्यता | तिङन्तेभ्यो निघातस्य प्रतिषेधस्तथाऽर्थवान् ॥ इति वाक्यपदीयव्याख्याऽक्सर इति शेषः ॥ *तन्मतेऽपि भव त्येवेति ॥ इदञ्च निरुक्तलौकिकवाक्यत्वस्यैव निघातप्रयोजकत्वमि स्याशय मूलकमित्यवधेयम् ॥ *पुनः पुनर्जन्मेति ॥ अत एव स• कृत्प्रवृत्तौ द्विः पचतीति न । पञ्च कृत्वो भुङ्क्ते इत्यादौ पञ्चादिशब्दाः संख्योत्पत्तिपराः । तस्या एव कृत्वसुजादिद्योतकः । सुत्रस्वारस्याश्च तद्द्योत्यार्थस्य क्रियायामन्वय इति भावः । क्रियान्वयिनामेव संज्ञे. त्यपादानादिमध्यम् । क्वचित्तथैव पाठः ॥ * स्पष्टमिति । 1 अन्ये तु - उत्तरभाष्ये करोति क्रियां निर्वर्त्तयतीति व्युत्पत्तिप्रद र्शनात्कारकत्वम् । अत एव ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यादी ब्राह्मणस्य न कारकत्वम् । पुत्रेणाऽन्यथासिद्धत्वात् अत एव तेषां क्रियायामन्वयः । क्रियाजनकमिति ज्ञाते का सा क्रियेत्याकाङ्क्षोदयेन क्रियाया अपि जनकाकाङ्क्षया च तत्रैवान्वयस्थौचित्यात् । अत एव, "गतिकारकोपपदाकृत्" (पा० सू० ६ । २ । ३९१ ) इत्यादी
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy