________________
૨૦૮
दर्पणसहिते वैयाकरणभूषणसारे
इत्यनेन समानवाक्ये एव तन्नियमात् । उक्तं च वाक्यपदीये - सम्बोधनपदं यच्च तत् क्रियायां विशेषणम् । व्रजानि देवदत्तेति निघातोऽत्र तथा सति ॥ इति ॥ पचति भवति देवदत्तेत्यादौ तु सूत्रभाष्यादिरीत्यै कवाक्यतासश्वात् स्यादेव निघातः । “तिङतिङः” ( पा० सू०
निष्ठत्वेन तत्रैव सम्बोधनान्तार्थान्वयौचित्यात् समानवाक्यस्थत्वमक्षतमिति भावः । बोधस्त्वत्राभिमुखीभवनानुकूलव्यापारविषयदेवदत्तोद्देश्यकप्रवर्त्तनाविषयत्वदभिन्नकर्तृकं भाषणमिति । तत्र हरि सम्मतिमाह *उक्तञ्चेति* ॥
*सम्बोधनपदामिति* ॥ तद्बोध्यमित्यर्थः ॥ *विशेषणमिति ॥ स्वाद्देश्यकप्रवर्त्तनाविषयत्वरूपपरम्परासम्बन्धेनेत्यर्थः । व्रजानीत्यस्यं हि जानीहीति शेषः ।
सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः । प्राप्ताऽऽभिमुख्यो हि जनः क्रियासु विनियुज्यते ॥
इति कारिकान्तरे विनियुज्यत इति वदता प्रवर्त्तनाविषय क्रियायामेव तदन्वयबाधनात् । प्रवर्त्तनोद्देश्यस्यैव तद्विषयाक्रियोद्देश्यत्वा दुद्देश्यविधेयभावस्य तयोः संसर्गमर्थ्यादिया लाभादेकवाक्यतया निघात इति तदर्थः । शाब्दबोधस्त्वत्र सम्बोधनविषय देवदत्तोद्देश्यकप्रवर्त्तनाविषयों मस्कर्तृकत्र जमकर्मकं ज्ञानमिति । (१) *सूत्रभाष्या दिरीत्येति* ॥ भूवादिसमर्थ सूत्रस्थभाष्योक्तरीत्येत्यर्थः ॥
*स्यादेवेति* ॥ आमन्त्रित देवदेत्तपदस्येत्यर्थः । अत्र जानीहीति पदाध्याहारेणोक्तरीत्या देवदत्तपदस्यैकवाक्यस्थत्वाऽक्षतेरिति भा वः । तत्र सूत्रकारसम्मतिमाह #तिङ्ङतिङ इतीति ( २ ) ॥ तिङ
(१) प्रवर्तनाविषयत्वं च ग्रन्थकृन्मते व्यापारद्वारा बोध्यम् । (२) अयमभिप्रायः । समानवाक्येनिघातेत्यादिवार्तिकेनैकवाक्ये निघात इष्टः । निघातविधायक सूत्रश्च "तिङतिङः” इति । अन्नातिपदञ्च पंचति भवतीत्यादौ तिङन्तात्परस्य निघातवारणा