________________
" धात्वर्थनिर्णयः।
१०७ घशत्यभिप्रायेण कृदभिहित इति भाष्यमतो न तद्विरोध इति भावः ॥ १६ ॥
ननु कारकाणां भावनान्वयनियम एवं पाक इत्यत्रापि कर्मषष्ट्यनुसारेण भावनाया वाच्यत्वं सिद्ध्यत् । तदेव कुत इत्याशङ्का समाधत्ते
सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वतिः ॥ धातुसम्बन्धाधिकारनिष्पन्नमसमस्तन ॥ १६ ॥
सम्बोधनान्तस्य क्रियायामन्वयः । त्वं ब्रूहि देवदत्त' इत्या. दौ निघातानुरोधात् । “समानवाक्ये निघातयुष्मदस्मदादेशा"
__ ननु घनादीनां व्यापारावाचकत्वेऽपि क्रियाविशेषणाद् द्वितीये. त्यत्र क्रियापदस्य पाकार्थकतया तथानुपस्थाप्यपरत्वात् स्तोक: पाक इत्यादी धातूपस्थाप्यपाकस्योक्तविशेषणवैकल्यान तद्विशेषण. चाचकपदाद्वितीयापत्तिरत आह *दिगति* ॥ तदर्थस्तु-स्यादेवं यदि क्रियाविशेषणाद् द्वितीयेति स्वतन्त्रमनुशासनं स्यात्, किन्त्व. स्मदुक्तफलितार्थकथनमेव तत । तथात्वे वा त्वन्मते स्तोकं इत्य. नापत्तेश्चति ॥ १५॥ . ........... . .
*क्रियायामिति ॥प्रवर्तनाविषयक्रियायामित्यर्थः। तत्र तदनन्व. ये निघाताऽनुपपत्ति प्रमाणयति *निघाताऽनुरोधादिति ॥ *समानघाक्य इति ॥ आख्यातं सविशेषणं वाक्यमिति समर्थसुत्रभाष्यात्सा• क्षात्परंपरया वा पदार्थान्तराऽन्वितक्रियाबोधकाख्यातस्यैकवाक्यता. लाभेन सम्बोधनान्तार्थस्य क्रियायामन्वये, त्वं हि देवदत्तेत्यादौ तदभावात् समानवाक्य इति, प्रकृत्यामन्त्रितस्येति विहितस्य निघा. तस्यानुपपत्तेरित्याखण्डलार्थः । तत्र, शालीनां ते ओदनं दास्यामीत्यादौ शालीनामित्यादेः समानवाक्यस्थत्वसिद्धये परम्परयोति । पचति भवतीत्यादिसाधारणं चैतत् । प्रकृते च सम्बोधनस्यानुवा. द्यविषयतयाऽनुवाद्यस्य विधेयसाकाहतया विधेयतायाध क्रिया.