SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ दर्पणसहिते वैयाकरणभूषणसारे पास्तम्। न च घनन्तशक्त्युपस्थाप्यान्वये स्तोकः पाक इति भव. तीति वाच्यम् । घान्तानुपूर्व्याः शक्ततावच्छेदकत्वे गौरवाद. नुशासनाच्च घनादेरेव(१)तथा शक्तिकल्पनादिति दिक् । एवञ्च *नैयायिकनव्योक्तमिति । धातूनां सुविभक्त्यप्रकृतित्वात्तदर्थे सुषर्थसंख्याकर्मत्वादीनामन्वयानुपपत्त्या धातोरिव घअन्तस्यापि क्रियावाचकत्वमभ्युपेयम् । प्रकृत्येकदेशार्थे तदन्वयाऽभ्युपगमे तु यत्र पाककीदेत्विादिकं बाधितं, पाकादेश्च तदबाधितं, तत्र पचन्तौ पश्यतीत्यादिप्रयोगापत्तेः । धातूपस्थाप्याऽर्थे सुबर्थान्वयबाधं प्रति तद्धातूत्तरधर्मिककिञ्चिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वावग. मे तु गौरवम् । एवञ्च यत्र धातुमात्रस्य पाकादौ तात्पर्य तत्र त. द्विशेषतावाचकस्तोकपदाद् द्वितीयैव । यत्र तु कृदन्तसमुदाय. स्य तत्र तद्विशेषणवाचकपदं तत्समानविभक्तिकमेवेति कातन्त्रप. रिशिष्टकृन्मतं नव्यनैयायिकमतत्वेनानूद्य दूषयति *नचेति* ॥ *गौः रवादिति ॥ ननु भावाख्यातबद्भावविहितघनादीनां धात्वर्थानुवादकत्वे स्थिते प्रागुक्तप्रयोगोपपत्तयेऽनायस्या धजन्तानुपूाः शक्ततावच्छे. दकत्वस्वीकार आवश्यक इत्यत आह * अनुशासनादिति* ॥ त. थाच गुरुभूतानुपूज्योः शक्ततावच्छेदकत्वापेक्षयानुशासनानुगुण्या. दुक्तप्रयोगोपपत्तये घनत्वस्यैव तत्त्वमुचितमिति भावः। (१) घनादेरेवेति । ननु वैयाकरणमते वृचिमात्रे समुदायशक्ति रभ्युपेयते । अन्यथा अर्थवत्वाभावात् प्रातिपदिकसंज्ञा न स्यात् । घमन्ते शक्तः सत्वाद्धान्तानुपूाः शक्ततावच्छेदकत्वं भवत्सिद्धा न्तसम्मतमेवेतिचेन्न । समुदायशक्तेरावश्यकत्वेऽपि घोऽपि शक्ति. रावश्यकी । अन्यथा ण्वुलादेरपि शक्तिर्नस्यात् । नचेष्टापत्तिः। 'क. तरिकृत्' इत्याद्यनुशासनविरोधस्य जागरूकत्वात् । तस्मात् यथा ण्वुलादिषु शक्तिः स्वीक्रियते तथा धज्यपि साऽऽवश्यकी इतिह. शान्तसग्रहार्थं घनादेरेवत्यत्रादिपदम् । .
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy