________________
..::: धात्वर्थनिर्णयः। एतदेव स्पष्टयतिसाध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ॥ सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥१५॥
नच घनादिभिः सिद्धत्वेनाभिधाने मानाभावः । पाक इत्युक्ते, भवति, नष्टो वेसाद्याकाङ्क्षोत्थापनस्यैव मानत्वात् । धातूपस्थाप्यायां तदसम्भवस्योक्तत्त्वात् । स्तोकः पाक इत्यना. पत्तेश्च । तस्माद्धात्वर्थान्वये स्तोकादिशब्देभ्यो द्वितीया । घना
न्वये प्रथमा पुँल्लिङ्गता चेति-तत्सिद्धये घनादेः शक्तिरुपेया। एतेन घनादीनां प्रयोगसाधुतामात्रमिति नैयायिकनव्योक्तम.
यथा भवति तथाऽध्यापक इत्यर्थे दारुणाध्यापकसिद्ध्यर्थ मलोपष. चनमारब्धे भाष्ये । अन्यथा, कर्तृकर्मणोरिति विहितषष्ठयन्तेन स. मासे तद्वैयर्थ्य स्फुटमेवेत्यन्यत्र विस्तरः । ___ अन्ये तु, ओजः सहोऽम्भसा वर्तत इत्यधिकारे "तत्प्रत्यनुपूर्वमीपलोमकूलम्” (पा० सू०४४।२८) इति सूत्रे द्वितीयान्ततच्छब्दग्रहणं ज्ञापकम् । क्रियाविशेषणाद् द्वितीयेत्यस्यार्थस्य, न तु स्तोकाद्यर्थस्य कर्मत्वमपि । फलस्य फलाश्रयत्वाऽभावात् । एवञ्च न तद्वाच. केभ्यः षष्ठीप्रसक्तिरित्याहुः ॥ १४ ॥ __*उक्तत्वादिति । क्रियान्तराकाङ्कानुत्थापकतावच्छेदकरूप. त्वं साध्यत्वमित्यादिनेत्यर्थः । क्रियान्तराकाङ्कानुत्थापकतावच्छे. दकरूपेणोपस्थितेः क्रियान्वयासम्भवादिति भावः । तेन रूपेणोपस्थितेः पश्य मृगो धावतीत्यादौ व्यभिचरितत्वादाह *स्तोकः पा. क इति* । घञा सिद्धावस्थक्रियाया अबोधने धात्वर्थविशेषणवा. चकस्तोकादिशब्दस्य लिङ्गसर्वनामनपुंसकत्वापत्तिरिति भावः। तदेव विशयति *तस्मादिति । *एतेनेति* । घनादीनां सिद्धावस्थाअपनक्रियावाचकत्वव्यवस्थापनेनेत्यर्थः। *प्रयोगसाधुतामात्रमिति। मात्रपदेन वाचकत्यव्यवच्छेदः ।
१४