SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०४ दर्पणसहिते वैयाकरणभूषणसारे निष्ठाखलर्थतनाम्" ( पा० सू० २ । ३ । ६९) इति लादेशः योगे षष्ठीनिषेधाच्च । एवं रीत्या, काठैः पाक इत्याद्यपीष्ट. मेव । एवं फलांशोऽपि धातुना असत्वावस्थापन एवोच्यते । अत एव, स्तोकं पचतीतिवत् स्तोकं पाक इत्युपपद्यते इति ॥१४॥ कथं तदनुपपत्तिरतआह-*नलोकेति*। इदं च समाधिसौकर्यादुक्तं। प्रत्यासत्या यद्धात्वर्थफलाश्रयत्वं तद्धात्वर्थकारकस्यैव कर्मताला. भेन पाकपदार्थस्य क्रियात्वेन भवत्वर्थस्य क्रियात्वेऽपि तदर्थफला. श्रयत्वाभावेनौदने कर्मत्वस्यैव दुरुपपादत्वात् । ननु तत्र मा भूत् कृ. द्योगषष्ठी शेषषष्ठयैव तथा प्रयोगोपपत्तेरिति चेन्न । सर्वत्र सम्बन्ध. षष्ठथैव प्रयोगोपपत्या कर्तृकर्मणोरित्यादिविधिवैयर्थ्यांपत्तेः। यदि च, जगतः कर्त्तत्यादौ कर्मत्वेन कर्मत्वप्रकारकसर्वसिद्धबोधोपप. त्यर्थ समासस्थले "गतिकारकोपपदात्कृत्" (पा० सू०६२।१३९) इत्यादिविहितस्वरनिर्वाहार्थ च तस्यावश्यकतेति विभाव्यते, तदा प्रकृते किं तत्प्रयोजनं पाणिपिहितमिति भावः । नन्वसत्त्वभूतक्रि. याया भावप्रत्ययप्रकृत्यर्थत्वे काष्ठानां तन्निरूपितकरणत्वस्यापि स म्भवाद्भवत्यर्थाऽनध्याहारेऽपि, काष्ठैः पाक इत्याद्यपि प्रसज्येते त्याशयेष्टापत्त्या परिहरति एवं रीत्येति ॥ अन्ये तु भावप्रत्ययस्थले सम्बन्धिभेदेनैकस्यैव पितृत्वभ्रातृत्व. घद्धावत्यर्थस्य मृगदर्शनसम्बन्धिभेदात् साधनवच्चैकस्या एव क्रि. याया वाचकप्रत्ययरूपसम्बन्धिभेदात् साध्यत्वसाधनत्वाभ्यामुप. स्थितिने ताभ्यां भिन्नभिन्नक्रियापस्थितिरित्याहुः । *एवमिति । यथौदनस्य पाक इत्यदावोदनस्य कर्मत्वाऽनुपपत्त्याऽसत्त्वभूतव्या. पारधातुवाच्यस्तथेत्यर्थः। तादृशफलस्यावाच्यत्वेऽनुपपत्ति दर्शय. ति। *अत एवेति * । अन्यथा तादृशप्रयागानुपपीत्तस्तादृशफलस्य वाच्यत्वे तु तस्य व्यपदेशिवद्भावेन स्वसम्बन्धितया कर्मत्वात् तत्स. मानाधिकरणस्तोकादिशब्देभ्यो द्वितीयोपपत्तिः । तत्र स्तोकादिभ्यः कत्र्तृकर्मणोरिति षष्ठी तु न । कर्तृसाहचर्येण भेदान्वयिन एव कर्म णस्तत्र ग्रहणात् । अत एव, "पूजनात्पूजितम्"इति सूत्रे भाग्ये दारुणं
SR No.023375
Book TitleVaiayakaran Bhushansara
Original Sutra AuthorN/A
AuthorHarivallabh
PublisherChaukhambha Sanskrit Pustakalay
Publication Year1981
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy